Book Title: Nyayasiddhant Muktavali
Author(s): Maherchand Lakshmandas
Publisher: Maherchand Lakshmandas

View full book text
Previous | Next

Page 10
________________ एवमेव “भूभूधरादयो बुद्धिमस्कर्तृका: सन्निवेशविशिष्टत्वात् गृहादिवद्" इत्यनुमानमपि ईश्वरसाधकं बोध्यम् । अत्राहुः सन्निवेशविशिष्टानामुत्पत्ति यो गृहादिवत् । साधयेच्चेतनाधिष्ठां देहानां तस्य चोत्तरम् ॥ कस्यचिद्धेतुमानत्वं यद्यधिष्ठातृतेष्यते । कर्मभिः सर्वजीवानां तत्सिद्धेः सिद्धसाधनम् ॥ इच्छापूर्वकपक्षेऽपि तत्पूर्वत्वेन कर्मणाम् । इच्छानन्तरसिद्धिस्तु दृष्टान्तेऽपि न विद्यते ॥ अनेकान्तश्च हेतुस्ते तच्छरीरादिना भवेत् । उत्पत्तिमांश्च तदेहो देहत्वादस्मदादिवत् ॥ इति ॥ अस्यायमाशय:-सन्निवेशविशिष्टत्वेन प्रासादादिवत् भूभूधरादीनां यदबुद्धिमच्चैतनकर्तृजन्यत्वं साध्यत ईश्वरवादिभिस्तत्र पृच्छयते-किमिदं चेतनाधिष्ठातृत्वं नाम ? । "कारणमात्राधिष्ठतृत्व" मिति चेद् ? अदृष्टद्वारा क्षेत्रज्ञजीवाधिष्ठातृत्वेन सिद्धसाधनम् । अथ इच्छापूर्वकचेतनाधिष्टातृत्वं" ( देहिकर्तृजन्यत्वं ) विवक्षितम् तदा साध्यहीनो दृष्टान्त: नहि “गृहं कुर्याम्" इतीच्छोत्तरमेव गृहोत्पत्तिदृष्टचरी। किञ्च-कार्यत्वसन्निवेशविशिष्टत्वहेतुभ्यां सिषाधयिषितः कर्ता कुलालवत्सशरीर एव स्यात् अशरीरित्वे तु व्याप्तेरसिद्धेः । तथा सतीश्वरस्यानीश्वरताप्रसङ्गो दुरुद्धरः, साध्यवैकल्यादयो दोषाश्चानन्ताः प्रसज्येरन् , अस्मदांदिवदेव चेश्वरे भ्रमप्रमादादिसम्भावना समुज्जृम्भतेति । अत्र ब्रमः-सन्निवेशमात्रं ( रचनामात्रं ) चेतनाधिष्ठानमन्तराऽनुपलभ्यमानं स्वव्यापकं कर्तृमात्रमनुमापयति=" कार्यत्वं कर्तृमात्रव्याप्य" मित्येव गमयति तत्र शरीरित्वादिविशेषणोपादानं व्यर्थमेव व्याव-भावात् । इदमत्राकूतकम्-धूमस्वेन वन्हित्वेन व्याप्यव्यापकभावः नतु फूत्कारजन्यत्व-कृशरेखावत्त्व-प्रबलवायुवेगादिप्रसृतत्वधर्मावच्छिन्नतयापि धूमवन्द्योाप्यव्यापकभावः कस्यापि प्रेक्षावतः सम्मतो युक्तियुक्तो वा आभाति, तद्वत् प्रकृतेऽपि कर्तृजन्यत्वकार्यत्वयोरेव व्याप्यव्यापकभावः कर्तृनिष्ठं शरीरित्वाशरीरित्वादिकं च नापेक्षितम् । अत एव "नच समानाधि. करणवन्हिधूमयो ाप्ति" रित्यादिव्याप्तिमर्मविदुषो विश्वनाथस्य पूर्वपक्षीयव्याप्तिग्रन्थोऽपि सङ्गच्छते, अन्यथा महानसीयवन्हिधूमयोरेव व्याप्ती गृह्यमाणायां पर्वतीयधूमेन कदापि पर्वते वन्यनुमिति!दीयात् , तस्य पर्वतीयवन्हिना पूर्वं व्याप्तेरग्रहणात् , अगृहीतव्याप्तिकस्य वन्ह्यनुमितेः स्वप्नेप्यसम्भाव्यमानत्वाच्च । नच यथा वन्हिसिद्धौ धूमो दृष्टं लिङ्गं न तथेश्वरसिद्धौ "कार्यत्वं" दृष्टं लिङ्गमिति कथं तद्वदस्य गम्यगमकभाव इति वाच्यम् सामान्यतोदृष्ठलिङ्गेनापि साध्यसिद्धेः । लिङ्गसामान्यस्य लिनिसामान्येन व्याप्तिग्रहात् यदनुमानं तत्सामान्यतोदृष्टव्याप्तिकत्वात्सामान्यतादृष्टम् , यथा स्पर्शादिलिनेन वाय्वनुमानम् , यथा वा ज्ञानादिना लिजनात्मानुमानम् ,यथा वा क्रियावत्त्वसामान्यस्य करणसाध्यवत्त्वसामान्येन अविनाभाव

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 486