Book Title: Nyayasiddhant Muktavali Author(s): Maherchand Lakshmandas Publisher: Maherchand Lakshmandas View full book textPage 8
________________ दृष्टान्तपक्षसाधाणरस्य स्वत्वस्यैकस्याभावात् तद्घटित "स्वोपादानगोचरे"त्यादिसाध्यस्य सुतरा. मसम्भव एवेति चेन्न ? कार्यमानं प्रतिकृतित्वनान्वयव्यतिरेकाभ्यां ज्ञानत्वेन इच्छात्वेन च हेतुत्वस्वीकारात् । तादृशज्ञानजन्यत्वस्य कृतिजन्यत्वरूपस्य वा साध्यस्य विवक्षितत्त्वे बाधानवतारात्। अत्राहुराहताः*-नोक्तानुमानेनेश्वरसिद्धिः कार्यत्वहेतोरेवाऽसिद्धेः। नच "क्षित्यादि कार्य सावयवत्वात् पटवद्" इति वाच्यम् , सावयवत्वस्यैवानिरुक्तेः । तथाहि-सावयवत्वं (१) किमवयसंयोगित्वं (२) अवयवसमवायित्वं वा ? (३) अवयवजन्यत्वं वा ? (४) समवेत. द्रव्यत्वं वा (५) सावयवबुद्धिविषयत्वं वेति पञ्च विकल्पाः । न तावदाद्यः पक्षः क्षोदक्षम: ? आकाशस्य कपालद्यवयसंयोगित्वेऽपि कार्यत्वाभावात् , तेन "सावयवत्वं" हेतुरनैकान्तः । द्वितीयोऽपि न सामान्यादौ व्यभिचारात् , नहि अवयवत्वरूपं सामान्यमवयवेषु समवायसम्वधेन न वर्तते इति तवापि स्वीकारः । नच तृतीयः साध्यविशिष्टत्वेन साध्यसमत्वात् , यथा वित्यादिषु कार्यत्वं साध्यं तथाऽजयवजन्यत्वमपि साध्यं, तेन साध्येनाविशि. टत्वात् साध्यसमो हेत्वाभासः । चतुर्थे तु विकल्पद्वयमवतरति-किमिदं नाम समवेतद्रव्यत्वम् ? (9) समवायसम्बन्धमात्रवद्र्व्यत्वमिति चेत् १ आकाशादौ व्यभिचारः गुणादिसमवायस्य तत्र सत्त्वात् द्रव्यत्वस्यापि च विद्यमानत्वात् । अथान्यत्र (२) समवेतद्रव्यत्वं विवक्षितं तदा पूर्ववत्साध्याविशिष्टत्वेन साध्यसमता । वस्तुतस्तु समवाय एव नास्ति प्रमाणाभावात् । नापि पञ्चमः, सावयवबुद्धिविषषयत्वेऽपि कार्यत्वाभावादात्मन्यनैकान्तिकता यतः। किञ्च--योकः कर्त्ता साध्यते तदा विशिष्टकार्येषु प्रासादादिषु व्यभिचारः, तत्र स्थपत्या दीनां बहूनां पुरुषाणां कर्तृत्वोपलम्भात् । कर्तृबहुत्वं चेत् ? तदा तवैवापसिद्धान्तः। तस्माज्जगत्कर्तुश्विरस्याङ्गीकारो युक्तिपराहतः तथासति रागादिविशिष्टतया तस्यानीश्वरत्वप्रसङ्ग एव । उक्तञ्च वीतरागस्तुतौ कास्ति नित्यो जगतः सचैकः स सर्वगः सन्स्ववशः स सत्यः । इमा: कुहेयाः कुविडम्बनाः स्यु स्तेषां न येषा-मनुशासकस्त्वम् । इति ॥ तदेतदनालोचितकर्कशतर्कस्वरूपाणां विसिचामभिधानमाकाशमुष्टिहननायते । तथाहि"कार्यत्वं" हेतु सिद्धः सावयवत्वेन तस्य साधनात् । “सावयवत्व"ञ्च समवेतद्रव्यत्वम् । तच्च--जन्यत्वे सति समवायसम्बन्धावच्छिन्नस्वाश्रयवृत्तिमप्वम् । तेन नैव जन्यगुणादिमदाकाशादिषु व्यभिचारः । जन्यत्वे सत्यवयवसमवायित्वं वा" तेन सामान्ये नानैकान्तिकता । अवयवजन्यत्वं वाऽस्तु । नच साध्यसमता क्षित्यादिष्वजन्यत्वस्य भवताऽप्यस्वीकारादिति सूक्ष्ममीक्ष्यताम् । सावयवबुद्धिविषयत्वं वा कार्यत्वमस्तु तावतापि न दोषः । नचात्मन्यनैकान्तिकता * प्रमेयकमलमार्तण्डीयपक्षमर्थत उपक्षिप्य प्रतिक्षिपति।Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 486