Book Title: Nyayasiddhant Muktavali
Author(s): Maherchand Lakshmandas
Publisher: Maherchand Lakshmandas

View full book text
Previous | Next

Page 18
________________ ( १४ ) किञ्च-=यथा वेदान्तिमते अविद्याध्वंसस्य ब्रह्माणि ब्रह्मरूपत्वं तथाऽस्मन्मतेऽपि भूतलादौ घटाभावस्य भूतलादिस्वरूपत्वम्, कल्पिताधाराधेयाभावश्च स्वीकृतः । त्वयापि च धटाभावे वन्ह्यभावोऽनवस्थाभिया घटाभाव एवेति घटाभावस्य वह्निरपि प्रतियोगीतिवदता आधाराधेयभावः स्वीकृत एव । नन्वाधाराधेयभावापत्तिपरिहारेपि येनेन्द्रियेण यद्गृह्यते तेनेन्द्रियेण तन्निष्ठा जातिस्तदभावश्चेति नियमाज्जलादिगतगन्धाभावस्य जलादिरूपतया जलादेरपि घ्राणग्राह्यत्वं स्यादितिचेद् ? अत्र ब्रमः--यथा जलमभास्वरशुक्लरूपवत्त्वेन चक्षुषा गृह्यते शीतस्पर्शवत्त्वेन तु त्वचा गृह्यते एवं गन्धाभावत्वेन जलादेओणग्राह्यत्वेऽपि न किञ्चिद्वाधकमिति युक्ततरमाभाति । अत एव गन्धाभावस्य जलादिरूपत्वे जलत्वादिनैव तेषां न घ्राणग्राह्यता गन्धाभावत्वेन तु तेषामपि घ्राणग्राह्यतेतीष्टमेवेति प्राभाकराणामाशयः । येनेद्रियेण यद्गृह्यत इति नियमोऽनैकान्तिकः । किञ्च-अभावानां प्रत्यक्षविषयत्वाभ्युपगमे तार्किकनियमव्यभिचारशङ्कावकाशः मीमांसकनये त्वधिकरणानामभावत्त्वेन रूपेणानुपलब्धिरूपषष्ठप्रमाणगम्यत्वस्य स्वीकारात् । ___ नच प्रमाणान्तराभ्युपगमे गौरवं शक्यम्, प्रत्यक्षवादिभिरपि अभावप्रत्यक्षकारणीभूतविशेषणविशेष्यभावाख्यषष्टसन्निकर्षस्य कल्पनेन तौल्यात् । नच वैशिष्टयं स्वरूपसम्बन्धरूपत्वादधिकरणात्मकमिति नातिरिक्तं कल्प्यत इति वाच्यम्, अभावानामधिकरणात्मकत्वेन प्रकृतेऽपि गौरवाभावात् । अपिच “येनेन्द्रियेणेत्यादि नियमस्यैकान्तिकत्वाभ्युपगमे रूपादिप्रतियोगिकाभावानामपि चक्षुह्यत्वापत्या वायौ रूपाभावबुद्धिश्चक्षुर्व्यापारमन्तरेणैव जायमानोपपद्येत । एवं परमारवादौ महत्त्वाभावबुद्धिरपि, वाय्वादेश्चाक्षुषविषयत्वञ्चापद्येत । तस्मादनुपलब्धिप्र. माणेनैवाधिकरणमभावत्वेन गृह्यते । "घटाभाववद्भूतलम्" इतिज्ञानस्यापि भूतलांशे प्रत्यक्षत्वमभावांशे परोक्षत्वम् , " पर्वतो वह्निमान्" इत्यादेः पर्वतांशे प्रत्यक्षत्वं वह्निमत्वांशे परोक्षत्वमिति ध्येयम् । तस्मात्पदार्थान्तरतया अभावस्याङ्गीकारोऽभिमानमात्रं तस्यालीकत्वात् । अत एव लोके वेदे च "घटो नास्ति' "यस्मात्परं नापरमस्ति किञ्चित्" इत्यादिर्नघटितवाक्यव्यवहार एव प्रायो दृश्यते नतु “घटाभाववभूतल" मिति लौकिकः कोपि प्रयुक्ते । किं बहुना अभावपदमपि न भावोऽभाव इति नञ्समास एव, नअर्थस्य पृथक्पदार्थताभिमाने तु अब्राह्मणोऽधर्म इत्यादौ प्रतीयमानसादृश्यविरोधादिनअर्थानामपि पदार्थान्तरतास्वीकारस्तव मते आपद्येत, तेन बहु पदार्थप्रसिद्धया सप्तपदार्थवादो दत्तजलाञ्जलिः स्यात् । वस्तुतस्तु नञः सममिव्याहृतपदार्थद्योतकत्वादेव न पृथपदार्थवाचकता, किन्तु पदार्थ एव आविर्भूतत्वतिरोभूतत्वाभ्यां द्विविधः, तत्र पदार्थस्यानाविर्भूतस्वरूपद्योतको नञ् । अत एव ब्रह्मसूत्रभाष्ये तर्कपादे "द्रव्यमेव संस्थानादिभेदादनेकशब्दप्रत्ययभाग्भवति तद्वत्" इतिभगवच्छ्रीशङ्कराचार्यैरुक्तम्। किञ्च-"धर्मविशेषप्रसूताद् द्रव्यगुणकर्मसामान्यविशेषसवायानां पदार्थानां साध. यंवैधाभ्यां तत्त्वज्ञानानिःश्रेयसम्" (वै० १ । १ । ४) इत्यत्र पदार्थेद्देशे महर्षिणा कणादेनाभावो नोद्दिष्टः । यत्तु-वृत्तिकारः "अत्र षट्पदार्थकीर्तनं भावाभिप्रायण वस्तु.

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 486