________________
( १४ ) किञ्च-=यथा वेदान्तिमते अविद्याध्वंसस्य ब्रह्माणि ब्रह्मरूपत्वं तथाऽस्मन्मतेऽपि भूतलादौ घटाभावस्य भूतलादिस्वरूपत्वम्, कल्पिताधाराधेयाभावश्च स्वीकृतः । त्वयापि च धटाभावे वन्ह्यभावोऽनवस्थाभिया घटाभाव एवेति घटाभावस्य वह्निरपि प्रतियोगीतिवदता आधाराधेयभावः स्वीकृत एव । नन्वाधाराधेयभावापत्तिपरिहारेपि येनेन्द्रियेण यद्गृह्यते तेनेन्द्रियेण तन्निष्ठा जातिस्तदभावश्चेति नियमाज्जलादिगतगन्धाभावस्य जलादिरूपतया जलादेरपि घ्राणग्राह्यत्वं स्यादितिचेद् ? अत्र ब्रमः--यथा जलमभास्वरशुक्लरूपवत्त्वेन चक्षुषा गृह्यते शीतस्पर्शवत्त्वेन तु त्वचा गृह्यते एवं गन्धाभावत्वेन जलादेओणग्राह्यत्वेऽपि न किञ्चिद्वाधकमिति युक्ततरमाभाति । अत एव गन्धाभावस्य जलादिरूपत्वे जलत्वादिनैव तेषां न घ्राणग्राह्यता गन्धाभावत्वेन तु तेषामपि घ्राणग्राह्यतेतीष्टमेवेति प्राभाकराणामाशयः । येनेद्रियेण यद्गृह्यत इति नियमोऽनैकान्तिकः । किञ्च-अभावानां प्रत्यक्षविषयत्वाभ्युपगमे तार्किकनियमव्यभिचारशङ्कावकाशः मीमांसकनये त्वधिकरणानामभावत्त्वेन रूपेणानुपलब्धिरूपषष्ठप्रमाणगम्यत्वस्य स्वीकारात् । ___ नच प्रमाणान्तराभ्युपगमे गौरवं शक्यम्, प्रत्यक्षवादिभिरपि अभावप्रत्यक्षकारणीभूतविशेषणविशेष्यभावाख्यषष्टसन्निकर्षस्य कल्पनेन तौल्यात् । नच वैशिष्टयं स्वरूपसम्बन्धरूपत्वादधिकरणात्मकमिति नातिरिक्तं कल्प्यत इति वाच्यम्, अभावानामधिकरणात्मकत्वेन प्रकृतेऽपि गौरवाभावात् । अपिच “येनेन्द्रियेणेत्यादि नियमस्यैकान्तिकत्वाभ्युपगमे रूपादिप्रतियोगिकाभावानामपि चक्षुह्यत्वापत्या वायौ रूपाभावबुद्धिश्चक्षुर्व्यापारमन्तरेणैव जायमानोपपद्येत । एवं परमारवादौ महत्त्वाभावबुद्धिरपि, वाय्वादेश्चाक्षुषविषयत्वञ्चापद्येत । तस्मादनुपलब्धिप्र. माणेनैवाधिकरणमभावत्वेन गृह्यते ।
"घटाभाववद्भूतलम्" इतिज्ञानस्यापि भूतलांशे प्रत्यक्षत्वमभावांशे परोक्षत्वम् , " पर्वतो वह्निमान्" इत्यादेः पर्वतांशे प्रत्यक्षत्वं वह्निमत्वांशे परोक्षत्वमिति ध्येयम् । तस्मात्पदार्थान्तरतया अभावस्याङ्गीकारोऽभिमानमात्रं तस्यालीकत्वात् । अत एव लोके वेदे च "घटो नास्ति' "यस्मात्परं नापरमस्ति किञ्चित्" इत्यादिर्नघटितवाक्यव्यवहार एव प्रायो दृश्यते नतु “घटाभाववभूतल" मिति लौकिकः कोपि प्रयुक्ते । किं बहुना अभावपदमपि न भावोऽभाव इति नञ्समास एव, नअर्थस्य पृथक्पदार्थताभिमाने तु अब्राह्मणोऽधर्म इत्यादौ प्रतीयमानसादृश्यविरोधादिनअर्थानामपि पदार्थान्तरतास्वीकारस्तव मते आपद्येत, तेन बहु पदार्थप्रसिद्धया सप्तपदार्थवादो दत्तजलाञ्जलिः स्यात् । वस्तुतस्तु नञः सममिव्याहृतपदार्थद्योतकत्वादेव न पृथपदार्थवाचकता, किन्तु पदार्थ एव आविर्भूतत्वतिरोभूतत्वाभ्यां द्विविधः, तत्र पदार्थस्यानाविर्भूतस्वरूपद्योतको नञ् । अत एव ब्रह्मसूत्रभाष्ये तर्कपादे "द्रव्यमेव संस्थानादिभेदादनेकशब्दप्रत्ययभाग्भवति तद्वत्" इतिभगवच्छ्रीशङ्कराचार्यैरुक्तम्।
किञ्च-"धर्मविशेषप्रसूताद् द्रव्यगुणकर्मसामान्यविशेषसवायानां पदार्थानां साध. यंवैधाभ्यां तत्त्वज्ञानानिःश्रेयसम्" (वै० १ । १ । ४) इत्यत्र पदार्थेद्देशे महर्षिणा कणादेनाभावो नोद्दिष्टः । यत्तु-वृत्तिकारः "अत्र षट्पदार्थकीर्तनं भावाभिप्रायण वस्तु.