________________
( १३ ) घटानयनेन तन्नाशे घटशून्यदेशेऽभावप्रतीत्यनुपपत्तेः तन्नित्यत्वं प्रकल्प्य घटानयनेन घटवति भूतले तदत्यन्ताभावबुद्धिप्रसक्तिस्तद्वैशिष्टयनाशादेव वारयितव्या, तथाचाधिकरणस्वरूपवैशिष्टयस्वीकारे ह्यावश्यके किमतिरिक्तकण्ठगडुभूताभावकल्पनेन तदपेक्षयाऽभावस्यैवाधिकरणस्वरूपत्वस्वीकारे महल्लाघवमिति ध्येयम् ।
किञ्च-किमिदमभावत्वं नाम, न तावद् द्रव्यादिषट्कान्योन्याभाववत्त्वं, द्रव्यत्वादेः प्रतियोगितावच्छेदकत्वे गुणत्वद्रव्यत्वादिकमादाय द्रव्यादिष्वतिप्रसङ्गात्, षट्त्वावच्छिन्नभेदस्य प्रत्येकं घटपटयेोरिव तस्य प्रत्येकं द्रव्यादावपि सत्त्वात् , पर्याप्तिसम्बन्धेन षट्त्वावच्छिन्नभेदस्य प्रत्येक द्रव्यादिषु सत्वस्य वारयितुमशक्यत्वात् । नचापेक्षाबुद्धिरूपं द्रव्यादिगतषदत्वमेव प्रतियोगितावच्छेदकं द्विप्रतियोगिकभेदस्य द्वित्वमिति वाच्यम्, व्यासज्यवृत्तिधर्माणां पर्याप्तिसम्बन्धेनैव प्रकारत्वनियमात् , अन्यथा द्वित्वस्य समवायेन प्रत्येकमपि सत्त्वेन "एको द्वौ" इत्येकविशेष्यकद्वित्वप्रकारकप्रमितिप्रसङ्गात् । एवञ्च षड्भिन्नमितिप्रतीतौ पर्याप्तिसम्बन्धेनैव षट्त्वस्य प्रकारत्वमनुभूयत इति षटत्वावच्छिन्नभेदोऽसङ्गतः । ___ नच-द्रव्यादिभेदषट्कत्वमभावस्वमिति वाच्यम् गौरवात् । लोके सर्वेषां समवायान्तपदार्थषट्कनिश्चयानियमेन तदनिश्चयवतामभावाप्रतीतेश्च । नच तर्हि-भावभिन्नत्वं तत्त्व" मिति शङ्कयम् भावत्वेन भावमजानतस्तदप्रत्ययापातात् । वस्तुतश्च-भाव वावच्छिन्नप्रतियोगिताकभेदस्यैवाप्रसिद्धतायाः परैरङ्गीकारात्, अभावधर्मिसिद्धौ तवृत्तिभेदसिद्धिः तसिद्धौ चाभावसिद्धिरित्यन्योन्याश्रयप्रसङ्गश्च दुरुद्धरः ।
किञ्च-त्व-मते भेदस्त्वन्योन्याभाव एव, अन्योन्याभावत्त्वञ्च अभावत्वगर्भो धर्मः। तथाच भावान्योन्याभावत्वमभावत्वमित्युररीकारेऽभावत्वज्ञानमन्योन्याभावज्ञानाधीनम् , अन्योन्याभावत्वज्ञानञ्चाभावत्वज्ञानाधीनमिति कथं नान्योन्याश्रयः। अन्योन्याभावेऽभावलक्षणसमन्वये आत्माश्रयश्च । अपिचैवं सति. "अभावो न भाव" इति वाक्याच्छाब्दबोधो न स्यात्, उद्देश्यतावच्छेदकविधेययोरैक्ये तदभावात् ।
यत्तु नव्याः- “समवायसामानाधिकरण्यान्यतरसम्बन्धावच्छिन्नप्रतियोगिताकसत्ताभावत्वमभावत्वम् " सामान्यादित्रिके द्रव्यादित्रिके चाव्याप्तिवारणार्थ सम्बन्धद्वयनिवेश इत्याहुः तन्न, सत्ताभावरूपोक्तावप्यात्माश्रयानपायात् सत्तानुपस्थितिदशायामभावप्रत्ययानापत्तेश्च । सत्ताभावनिष्ठमभावत्वमपि सत्ताभावरूपं पुनस्तन्निष्ठमभावत्वमपि सत्ताभावरूपं पुनस्तन्निटमभावत्वमपि तद्रपमित्यनवस्थापत्तेः । नच सत्तात्यन्ताभावव्यक्तेः स्वरूपत एव भानं स्वीक्रियते, अतएव सत्तारूपप्रतियोगिज्ञानं विनापि “घटो नास्ति' इतिबुद्धौ सोऽन्यन्ताभावः प्रकारः अभावत्वप्रत्यक्ष एवं प्रतियोगिधियो हेतुत्वात् , अन्यथा "इदं तम" इति प्रतीत्यनापत्तिरिति वाच्यम् कल्पने मानाभावात् , प्रतियोगिज्ञानमन्तरेणाभावज्ञानस्यानिष्पत्तिनियमेन सत्तोपस्थितिमन्तराऽभावज्ञानासम्भवात् । ' इदं तम" इति ज्ञानन्तु न तेजोऽभावविषयकम् , मीमांसकैस्तमसः स्वतन्त्रद्रव्यत्वस्वीकारात् । प्रगाढयुक्तिभिः प्रतिपादितोऽयमर्थः श्रीचित्सुखाचार्यैः तत्त्वप्रदीपिकायामिति स ततो द्रष्टव्यः ।