SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ च * ऋषिवाक्येषु यथेष्टं विभक्तिविपरिणामेनान्वयो यथा-"अमिहोत्रजुहोती" त्यादिषु मीमांसकानां प्रसिद्धम् । अपिच सूत्रं नाम सूत्रितार्थ भवति सूत्रितार्थावबोधश्च व्याख्यानहे. तुक इत्येकेनैव प्रयत्नेन लक्ष्यलक्षकपदार्थावबुवोधयिषया महर्षिस्तथा प्रणयन् मात्रयापि न दूष्यतां यातीति विपश्चिद्वर्या एवेह साक्षिण इति दिक् । अधिकं न्यायभाष्यविवरणकरणकाले समाधास्यामः। __प्रकृतमनुसरामः-एवमेव महर्षिः कणादोऽपि वैशेषिकसूत्राणि रचयाञ्चकार, तदुपर्यपि किरणावलीकन्दलीप्रभृतयोऽनेके ग्रन्था उत्तरोत्तरं रचिताः यत्र षण्णां पदार्थानां साधर्म्यवैधादिनिरूपणपूर्वकं पदार्थविज्ञानमाविष्कारितम् , तदेतदुभयदर्शनमूलमाश्रित्यैव सप्तपदार्थवादिभिर्नव्यन्यायशास्त्रमवतारितम्, मया व्याख्यायां तत्र तत्रार्षमूलकता नव्यन्यायशास्त्रस्य मुक्तावलीग्रन्थस्य तत्तत्प्रकरणविशेषे दर्शितैवेतिटीकाग्रन्थावलोकनेन ज्ञातं भविष्यति । किञ्च षोडशादिपदार्थानां सप्तस्वेव पदार्थेष्वन्तर्भावप्रकारः दिनकर्यां स्पष्टोस्तीतिमत्वाऽत्र प्रन्थगौरवं नादृतमिति शम्। अभावत्वं सखण्डोपाधिरितिवदतां केषाञ्चित् युक्तिबलं कीदृशमिति प्रेक्षावतां पुरतः काश्चन कल्पनां प्रदर्शयाम: प्राभाकरा: "अभावोऽधिकरणात्मक" एवेत्याहुः । नन्वाधाराधेयभावानुपपत्तिरिति चेन्न, त्वन्मते यथाऽभावाधिकरणकेऽभावे आधाराधेयभावस्तथा मन्मतेपि भावाधिकरणकाभावस्याधिकरणात्मकत्वे आधाराधेयभावस्वीकारे न किमपि बाधकं पश्यामः । ननु"भूतले घटाभावः” “भूतलं घटाभाववत् ” इति भूतलादिविशेषणतया तद्विशेष्यतया च प्रतीयमानोऽभावपदार्थः कथं भूतलादिस्वरूपतया शक्यनिर्वचन इति चेद् ? उच्यते:-यथा "अभावविशिष्टदुद्धिर्विशेषणविशेष्यसम्बन्धविषया विशिष्टबुद्धित्वात् दण्डी पुरुष इति विशिबुद्धिवत्" इत्यनुमानेन सिद्धयदपि वैशिष्टयं तस्य नित्यत्वे भूतले घटानयनान्तरमपि घटाभावबुद्धिप्रसङ्गं तस्याऽनित्यत्वे चानन्तवैशिष्टयकल्पनाप्रसङ्गं प्रदW नाङ्गीक्रियते किन्तु "घटाभाववद् भूतलम्" इत्यादिप्रमितिकालिकं भूतलादिकमेव तत्तदभावानां सम्बन्ध इति वदद्भिरभाववादिभिर्भूतलादिस्वरूपतयाऽभ्युपेयते तथा घटाद्यनुपलब्धिकालिकं तत्तद्भूतला. दिकमेव तत्तदभावत्वेन कल्प्यतामिति किमतिरिक्तकल्पनया, वैशिष्टयस्य नित्यत्वाऽनित्यत्वपः क्षयोरक्तदोषाणामभावनित्यत्वाऽनित्यत्वपक्षयोरपि परिहारस्य तुल्यत्वात् । यथाचाभावनित्यत्वे घटाभाववत्ताबुद्धिं प्रति घटवत्ताबुद्धेः प्रतिबन्धकतया न घटकाले धटाभावबुद्धिः तथा वैशिष्ट्यस्य नित्यत्वेऽपि तदभाववत्ताबुद्धिं प्रति तद्वत्ताबुद्धेः प्रतिबन्धकत्वेन घटानयनेन घटवति भूतले न घटाभावबुद्धिरिति समानः परिहारः । ततश्च वैशिष्टयस्याऽप्यतिरिक्तपदार्थत्वापत्तिः, अतो वैशिष्टयवदेवाभावोऽपि भूतलाद्यधिकरणस्वरूप एवेति भावः । किञ्च–प्रतियोगिभेदादेवाभावभेदो न त्वधिकरणभेदात् तथाचात्यन्ताभावस्य तन्नित्यत्वे * ऋषिवेंदो मन्त्रार्थद्रष्टा च ।
SR No.002363
Book TitleNyayasiddhant Muktavali
Original Sutra AuthorN/A
AuthorMaherchand Lakshmandas
PublisherMaherchand Lakshmandas
Publication Year
Total Pages486
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy