________________
ततो नृगस्य राज्ञः शासनकाले वाचस्पतिमिश्रः, तत उदयनाचार्य, इत्याद्यधिकं एशियाटिकसोसायटीमुद्रितात् कुसुमाञ्जलिभूमिकाग्रन्थादवगन्तव्यम् ।
यत्तु–पञ्चनदीयः पण्डितसुदर्शनाचार्यः निजनिर्मितप्रसन्नपदाख्यायां न्यायभाष्यव्याख्याभूमिकायां न्यायसूत्रभाष्यकारयोरत्यन्तं प्रद्विषन् "एतानि सूत्राणि नैव गोतमर्षिप्रणीतानि, किन्तु केनापि न्यायाचार्येण तन्नाम्ना रचितानि प्रायःप्रसादरहितान्येव, अस्य गोतमस्य न प्रकृष्टं सूत्रप्रणयनपाण्डित्यमस्तीत्यग्रे स्पष्टमेव प्रतीयते, तथाहि-द्वितीयाध्यायद्वितीयाह्निके "सहचरण०” इत्यादिसूत्रे "ब्राह्मणमञ्च" इत्यादिवाक्यं नापि लक्ष्यार्थसङ्ग्रहपरं सम्भवति तत्र मञ्चस्य लक्ष्यत्वाभावात् , नापि लक्षकशब्दसङ्ग्रहपरं सम्भवति ब्राह्मणशब्दस्य लक्षकत्वाभावात् , एवं कटादिष्वपि तत्र विज्ञेयमित्याद्यनल्पं दुरुक्तवान् तत्तस्य सम्प्रदायानभिज्ञताम् * अतिप्रसादगुणोपेतनव्यन्यायशास्त्राध्ययनसंस्कारबहुलबलात्कारसूत्रभाष्यविमर्शनसाहसकारिताञ्चाभिव्यनक्तीति ब्रमहे।
एषु प्रसादराहित्यं वदन् पण्डितवर्योऽसौ प्रष्टव्यः प्रसादपदेन किं "शुष्कन्धनाग्निवदि" त्याकारकलक्षणलक्षितः काव्यगुणस्तेऽभिप्रेतः ? सरलपदयोजनामात्रं वा ? आये नेदं काव्यमास्ते येन तथा रचनामकुर्वाणः कविरुपालम्भनीयवचनः स्यात् । द्वितीये हेतुर्नोपन्यस्तो येन भवद्वचसि प्रत्ययमादधीमहि । अन्यथा सप्रसादान्येवामूनि सूत्राणीति वदतामस्माकमेव जयः । वस्तुतस्तु-श्रतिकट्वच्छेदकतावच्छिन्नादिविविधदुरूहार्थकपदप्रयोगबाहुत्योपेताभिनवन्यायशास्त्रसंस्कारातिरेकसमुत्था भ्रान्तिरेवेयं भवतां यदमूनि प्रसादरहितानि सन्तीति ।
अपिच-" तथाचाचार्यप्रणीतं न्यायोपबृंहितं सूत्रं "दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्ग" इति साक्षान्महादेवावतारभूतशङ्करभगवत्पादवचसि, तत्राक्षपादगोतममुनिसम्मतिमाह तथाचेति" इत्यादि, "न केवलमस्मिन्नर्थे श्रुत्यादयः अपित्वक्षपादाचार्यसूत्रमपि न्यायमूलमस्तीत्याह-तथाचाचार्यप्रणीतमिति" इत्यादि चाप्ततरानेकटीकाकारवाक्येष्वपि विश्वासमनासादयतस्तवास्मिन्नर्थे को नाम प्रेक्षावान् विश्वासमाधास्यति यदमूनि गोतममुनिप्रणीतानि न सन्तीति । किं शङ्करोपि भगवान् भ्रान्त इति मन्यसे येनैवमनर्गलवागास पण्डितवर्य ! शान्तं पापम् । __ यस्तु-“ सहचरणे त्यादिसूत्रे रचनाशुद्धिरुक्ता सापि सूत्रकारकृतानुग्रहानभिसन्धानादेव, सूत्रे कानिचित् पदानि लक्षकशब्दसङ्ग्रहाभिप्रायेण कानिचिच्च लक्ष्यार्थसङ्ग्रहपरत्वेनोक्तानि उभयविधार्थबोधनाय व्युत्पित्सूनाम्, तत्र षष्ठीसप्तमीविभक्तयन्वयो योग्यतया व्याख्यानादेव भविष्यति व्याख्यानतो विशेषप्रतिपत्तेः, अन्यथा अध्यासार्थकसूत्रमप्रणयन् वेदविदग्रेसरो व्यासोपि महर्षिरनवधेयवचनः स्याद् यद्येवंविधावसरे व्याख्यानं शरणं न स्यात् । भवति
* इयं सोपहासोक्तिः।