________________
(..) स्वरूपाभिव्यक्तिं महर्षिासो जैमिनिपक्षत्वेनोपान्यास्थात् अत्यन्तासतोऽभिव्यक्तेरनुपपत्तेः । कुतश्च विविधमीमांसाग्रन्थकाराः स्वस्वग्रन्थादौ ईश्वराङ्गीकर्तृवत् मङ्गलमातेनिरे यदि तेषामीश्वरोनभिमतः स्यात् । तद्यथा-विशुद्धज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे । श्रेयः प्राप्तिनिमित्ताय नमः सोमार्धधारिणे” इति श्लोकवार्तिकादौ भट्टकुमारिलः । "आनन्दममृतं ज्ञानमजं साक्षिण मीश्वरम् । ब्रह्म सर्वमसर्वञ्च वन्दे देवं हरिं प्रभुम्" इति न्याय. रत्नामालादौ पार्थसारथिमिश्रः। 'नत्वा गणेशवाग्रामगुर्वघीन् भट्टशङ्करः" इति मीमां. सासारसद्महे भट्टशङ्करः । “परामृष्टः क्लेशैः कथमपि न यो जातु भगवान् " इत्यादिना न्यायकणिकादौ श्रीवाचस्पतिमिश्रः । “वासुदेवं रमाकान्तं नत्वा लौगातिभास्करः" इत्यर्थसङ्ग्रहे लौगाक्षिभास्करः । “सूर्यनारायणं वन्दे देवीं त्रिपुरसुन्दरीम्" इति मीमांसापरिभाषायां श्रीकृष्णयज्वा । “यत्कृपालेशमात्रेण पुरुषार्थचतुष्टयम् । प्राप्यते तमहं वन्दे गोविन्दं भक्तवत्सलम्" इति मीमांसान्यायप्रकाशे प्रापदेव इति कति ब्रमः । तस्मात् पूर्वमीमांसकानामीश्वरनिराकरणविषये विवक्षितार्थतेति रिक्तं वचः ।
इतीश्वरवादः। तदिदं न्यायशास्त्रं द्विविधम् । प्राक्तनमर्वाक्तनञ्च । प्राक्तनमपि द्विविधम् । मूलभूतं सूत्ररूपम् , तद्वयाख्यात्मकञ्च । आदिन्यायशास्त्रप्रणेता महर्षिोतमः त्रेताकालीनः प्रजापतेरङ्गिरसः प्रपौत्रः, दीर्घतमसः पुत्रो महातपस्वी च जन्मस्थानञ्चास्य हिमालयभूमिः । अस्य पाणिगृहीती अहल्येति सुप्रसिद्धमेव । इयमेव स्वपत्युर्महर्षेः शापेन शिला सती भगवदवतारभूतमर्यादापुरुषोत्तमश्रीरामचन्द्रचरणरजःस्पर्शेन विध्वस्तसकलकिल्विषा मुक्तशापा दिव्यं वपुरापेदे स्वपत्युर्हृदये तथैव (ततोप्यधिक) मानञ्च लेभे इत्यैतिहासिकाः । तदेतत्पुराणादिप्रन्थपरिशीलनतो ज्ञातुं सुशकमिति नाधिकं प्रपञ्चितम् ।
न्यायसूत्ररचयिता गोतममुनिर्व्याससमकालीन इति गुरुशिष्यप्रणालीत्यपि केचित् । एवं किल किंवदन्ती-यद्वेदव्यासो गौतमस्य शिष्यः । तेन हि "एतेन शिष्टापरिग्रहा व्याख्याता" (ब्र० सू० २ । १ । १२) इतिसूत्रेण न्यायसूत्रकारमते परासिते गोतम उवाच-नामुं शिष्यापसदं चक्षुषा पश्यामीति, तदेतदाकर्ण्य व्यासो भगवान् गुरुतोषकरणाय तच्चरणोपरि पपात, तुष्टाव च तेन पुनः शिष्यवत्सलो महर्षिर्योगसामर्थ्यात् स्वपादे चक्षुरुत्पादयामास येन स्वशिष्यं व्यासमालोकितवान् , तत एव च 'अक्षणाद"इति नाम्नापि ख्यातिङ्गतः । केचित्तु विहारप्रदेशे गौतमाश्रनाम्ना प्रसिद्ध स्थानमस्ति तेनायं मुनिः तद्देशवास्तव्य आसीत् । श्रीभगवता रामचन्द्रेण विश्वामित्राश्रमात् मिथिलां गच्छता गोतममाश्रमः प्राप्तः । गोतमस्य पुत्रः शतानन्दः मिथिलेश्वरस्य जनकस्य पुरोहित इति सुप्रसिद्धम् , तदत्र युक्तायुक्तं विशेषगवेषणासापेक्षम् ।
न्यायसूत्रभाष्यप्रणेता पक्षिलस्वामी (चाणक्यः ) चन्द्रगुप्तसमकालीनः । ततः विक्रमादित्यसमयात् किञ्चित् परत: वार्तिककार उद्योतकराचार्यों बभूव । असौ बौद्धाचार्यदिङ्नागखण्डितं भाष्यं स्वग्रन्थेन उद्दधार । तत उत्तरं श्रीशङ्करभगवत्पादानामाविर्भावः,