________________
( १५ ) तोऽभावोऽपि पदार्थान्तरतया मुनेरभिमत" इत्युक्तम् । “श्रभावश्च वक्तव्यो निःश्रेयसोपयोगित्वाद्भावप्रपञ्चवत्" इति लीलावतीकारोक्तञ्च, द्रव्यकिरणावल्याम्, "अभावस्तु स्वरूपवानपि नोद्दिष्टः प्रतियोगिनिरूपणाधीननिरूपणत्वान्नतु तुच्छत्वा" दित्युदयनोक्तञ्च तत्सर्वं सूत्रविरोदुपेक्ष्यम्, अधर्माधिकारिबुद्धधनुरोधाद्वा कथञ्चिद् गमयितव्यम् । वैशेषिकसूत्रोपन्यासकारशङ्करमिश्रास्तु-'अत्र द्रव्यादिपदार्थानामुद्देश एव विभाग: पर्यवसन्नः सच न्यूनाधिकसङ्ख्याव्यवच्छेदफलकस्तन षडेव पदार्था इति नियमः पर्यवस्यती"ति षडेव पदार्थान्मन्यन्ते । नच प्रथमाध्याये द्वितीयाह्निके "कारणाभावात्कार्याभाव इत्यादीनां सूत्राणां का गतिरिति वाच्यम् , पूर्वोत्तरमीमांसकानामभावघटितप्रयोगवनिषेधमात्रपरतयापि तदुपपत्तेः । अन्तर्भावस्तु गुणादौ यत्र विधेः कल्प्येत तत्र" निषेधस्यापि स्यात् तस्मादभावत्वं सखण्डोपाधिरिति वदन्तो दूरं परास्ता वेदितव्याः । __ प्रास्तां तावदियं विचारणा सर्वथापि तु इदं न्यायशास्त्रं सकलशास्त्रमर्मविज्ञानाय बुद्धिचातुर्यवर्धनाय च महदुपकरोति, यदि शुष्कवागाडम्बरविडम्बनैव निनाटयिषिता न भवेत् । अस्य मुक्तावलीग्रन्थस्य समालोचनादृष्टया गुणदोषविवेचनात्मको भूमिकांशो बहुकार्यव्यग्रतया सम्प्रति न प्रयोजितः, यदि जीविष्यामि समयान्तरे पुनःसंस्करणे नियोजयिष्यामि, यथाचैतत् तथैव च न्यायसाहित्येतिह्यमपि । __ अपिच अस्याः प्रभाख्यायाः टीकाया रचने मम मुख्यं प्रयोजनमेतदेवास्तीति यदत्र देशे साम्प्रतिकानां विरलप्रचारमाप न्यायशास्त्रमनायासेनैव प्रक्रियाधिगमपूर्वकं भूयोपि बहुप्रचारं भवेत्, परीक्षादित्स्नां छात्राणामपि मुगमता तदध्यापकानाञ्च पाठे मूलार्थलापनेऽनायासता च सिद्धयेत् । यथामति यथावसरञ्च मया प्रमादिसंशोधनकार्य सम्पादितं तथापि मनुष्यस्वभावसुलभतया क्वचित् क्वचिदशुद्धिरपि सखाता चेत् ? सापुनः सहजकृपापरवशर्विद्वद्भिर्गुणग्रहिलैः स्वयं वारणीया, तेन तेषामहं महान्तं धन्यवादं गास्यामि।
सकलशास्त्रपारङ्गतैनव्यन्यायमूर्तिीभीरवाखण्डाध्यापकैर्वीतरागैः श्रीलश्री १०८ विश्वे. श्वराश्रमस्वामिभिर्भूमिकादिविषये मम लेखसन्मतिसाहाय्यमाचरितमिति ते कोटिशो धन्यवादे ष्यन्ते ।
विदुषामनुचरःता० २२-२-२४ ई० }
नृसिंहदेवः।