SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ * ॐ * द्वितीयसंस्करणविषये द्वित्राः शब्दाः। श्रीमाननीयाः! प्रियपाठकमहाभागाः! मुक्तावलीप्रमाया द्वितीयसंस्करणमिदं प्रथमसंस्करणापेक्षया बहु सुन्दरंपरिष्कृतम्, कवित् कचित् टीकाटिप्पणादिस्थले परिवर्धितश्च । यत्र पूर्वसंस्करणरचितपाठस्यातो भेदः क्वविदुपलभ्येत तावता विरोधसम्भावना न कर्त्तव्या, विवक्षितार्थे वैषभ्याभावाद् बुद्धिपूर्व परिवर्तितत्वाच । यदि क्वचिदेकरूपः पाठः स्थलान्तरेऽपि धृतः स्यात्तत्र तध्येतृजनसौका यहेतुकोऽनुवाद एव न पुनरुक्तिरपीति । किश्च-३५३ पुटादारभ्य ३७६ पुटपर्यन्तं फर्मात्रये प्रकाशकमहोदयानामनवधानाद् यदनातन्यायमर्मकेण केनचित्संशोधनाय साहसिक्यमाचरितं, तत्र जातानां वर्णमात्राद्यशुद्धीनां छते मम मनसि महान् खेदो वर्तते । तदर्थ मया विद्वांसः सानुरोधं प्रार्थ्यते यत्ते कृपया तत्र तत्र तच्छोधनं कृत्वा पठन्तः पाठयन्तश्च मयि महान्तमनुग्रहं विधास्यन्तीति । तत्रत्यतत्तत्पत्रीयशीर्षकवैकृत्यन्तु संयुक्तिचिटिकेन दूरीकृतम् । एतस्मिन् संस्करणे मुक्तावल्यास्तुलनात्मकसमा लोचनां लिलखिषामिस्म, परन्तु तन्मुद्रणे प्रकाशकानामिच्छा नाऽभूदिति कृत्वा तामहं कालान्तरे यथायोगं प्रकाशयिष्यामि। एवं कृतेऽपि प्रयत्ने मनुष्यजनसुलभप्रमादहेतोर्यत्र कुत्रचित् काचित्रुटिरुपलभ्येत चेत् ? तन्माम्प्रति लेखद्वारा तस्याः सूचनां कुर्वन्तु येनाग्रिमे संस्करणे तत्समीचीनं करिष्येत । किंवा-स्वयं तत्र तत्र तत्पूर्तिकरणेन मत्साहाय्यमाचरन्तोपि विद्वांसो मया शतशोधन्यवादैभूयेरनिति बद्धाञ्जलिः प्रार्थयते विदुषामनुचरः नृसिंहदेवः ता०ई० २८-१०-२६
SR No.002363
Book TitleNyayasiddhant Muktavali
Original Sutra AuthorN/A
AuthorMaherchand Lakshmandas
PublisherMaherchand Lakshmandas
Publication Year
Total Pages486
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy