Book Title: Nyayasiddhant Muktavali
Author(s): Maherchand Lakshmandas
Publisher: Maherchand Lakshmandas

View full book text
Previous | Next

Page 14
________________ (..) स्वरूपाभिव्यक्तिं महर्षिासो जैमिनिपक्षत्वेनोपान्यास्थात् अत्यन्तासतोऽभिव्यक्तेरनुपपत्तेः । कुतश्च विविधमीमांसाग्रन्थकाराः स्वस्वग्रन्थादौ ईश्वराङ्गीकर्तृवत् मङ्गलमातेनिरे यदि तेषामीश्वरोनभिमतः स्यात् । तद्यथा-विशुद्धज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे । श्रेयः प्राप्तिनिमित्ताय नमः सोमार्धधारिणे” इति श्लोकवार्तिकादौ भट्टकुमारिलः । "आनन्दममृतं ज्ञानमजं साक्षिण मीश्वरम् । ब्रह्म सर्वमसर्वञ्च वन्दे देवं हरिं प्रभुम्" इति न्याय. रत्नामालादौ पार्थसारथिमिश्रः। 'नत्वा गणेशवाग्रामगुर्वघीन् भट्टशङ्करः" इति मीमां. सासारसद्महे भट्टशङ्करः । “परामृष्टः क्लेशैः कथमपि न यो जातु भगवान् " इत्यादिना न्यायकणिकादौ श्रीवाचस्पतिमिश्रः । “वासुदेवं रमाकान्तं नत्वा लौगातिभास्करः" इत्यर्थसङ्ग्रहे लौगाक्षिभास्करः । “सूर्यनारायणं वन्दे देवीं त्रिपुरसुन्दरीम्" इति मीमांसापरिभाषायां श्रीकृष्णयज्वा । “यत्कृपालेशमात्रेण पुरुषार्थचतुष्टयम् । प्राप्यते तमहं वन्दे गोविन्दं भक्तवत्सलम्" इति मीमांसान्यायप्रकाशे प्रापदेव इति कति ब्रमः । तस्मात् पूर्वमीमांसकानामीश्वरनिराकरणविषये विवक्षितार्थतेति रिक्तं वचः । इतीश्वरवादः। तदिदं न्यायशास्त्रं द्विविधम् । प्राक्तनमर्वाक्तनञ्च । प्राक्तनमपि द्विविधम् । मूलभूतं सूत्ररूपम् , तद्वयाख्यात्मकञ्च । आदिन्यायशास्त्रप्रणेता महर्षिोतमः त्रेताकालीनः प्रजापतेरङ्गिरसः प्रपौत्रः, दीर्घतमसः पुत्रो महातपस्वी च जन्मस्थानञ्चास्य हिमालयभूमिः । अस्य पाणिगृहीती अहल्येति सुप्रसिद्धमेव । इयमेव स्वपत्युर्महर्षेः शापेन शिला सती भगवदवतारभूतमर्यादापुरुषोत्तमश्रीरामचन्द्रचरणरजःस्पर्शेन विध्वस्तसकलकिल्विषा मुक्तशापा दिव्यं वपुरापेदे स्वपत्युर्हृदये तथैव (ततोप्यधिक) मानञ्च लेभे इत्यैतिहासिकाः । तदेतत्पुराणादिप्रन्थपरिशीलनतो ज्ञातुं सुशकमिति नाधिकं प्रपञ्चितम् । न्यायसूत्ररचयिता गोतममुनिर्व्याससमकालीन इति गुरुशिष्यप्रणालीत्यपि केचित् । एवं किल किंवदन्ती-यद्वेदव्यासो गौतमस्य शिष्यः । तेन हि "एतेन शिष्टापरिग्रहा व्याख्याता" (ब्र० सू० २ । १ । १२) इतिसूत्रेण न्यायसूत्रकारमते परासिते गोतम उवाच-नामुं शिष्यापसदं चक्षुषा पश्यामीति, तदेतदाकर्ण्य व्यासो भगवान् गुरुतोषकरणाय तच्चरणोपरि पपात, तुष्टाव च तेन पुनः शिष्यवत्सलो महर्षिर्योगसामर्थ्यात् स्वपादे चक्षुरुत्पादयामास येन स्वशिष्यं व्यासमालोकितवान् , तत एव च 'अक्षणाद"इति नाम्नापि ख्यातिङ्गतः । केचित्तु विहारप्रदेशे गौतमाश्रनाम्ना प्रसिद्ध स्थानमस्ति तेनायं मुनिः तद्देशवास्तव्य आसीत् । श्रीभगवता रामचन्द्रेण विश्वामित्राश्रमात् मिथिलां गच्छता गोतममाश्रमः प्राप्तः । गोतमस्य पुत्रः शतानन्दः मिथिलेश्वरस्य जनकस्य पुरोहित इति सुप्रसिद्धम् , तदत्र युक्तायुक्तं विशेषगवेषणासापेक्षम् । न्यायसूत्रभाष्यप्रणेता पक्षिलस्वामी (चाणक्यः ) चन्द्रगुप्तसमकालीनः । ततः विक्रमादित्यसमयात् किञ्चित् परत: वार्तिककार उद्योतकराचार्यों बभूव । असौ बौद्धाचार्यदिङ्नागखण्डितं भाष्यं स्वग्रन्थेन उद्दधार । तत उत्तरं श्रीशङ्करभगवत्पादानामाविर्भावः,

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 486