Book Title: Nyayamanjari Ahanika 06 07 08 09
Author(s): Jayant Bhatt, Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 429
________________ અસખ્યાતિનું ખંડન ४०५ भवति, न त्वत्यन्तासदर्थविषयः । तथा हि द्विविधा भ्रान्ति:-बाह्येन्द्रियजा मानसी च। तत्र बाह्येन्द्रियजे भ्रमज्ञाने विषयदोषाद् इन्द्रियदोषाद्वा समुत्पद्यमाने न क्वचिनिरालम्बनता दृश्यते। भास्वररूपसादृश्येन हि विषयदोषेण शुक्तिका रजतमिति परिस्फुरति, मरुस्थलपतितोत्फलितं च सावित्री तेजस्तरलतरङ्गसारूप्येण पय इति चकास्ति । इन्द्रियदोषादपि पित्तोपहतरसनस्य तिक्ततया शर्कराऽवभासते, तिमिरसीमन्तितनयनवृत्तेश्चन्द्रमण्डलमेकमपि द्विधा प्रतिभाति, तिमिरकणनिकरविवरविरचितप्रसृताश्च नयनरश्मयः सूर्या शुसंवलिताः सन्तः सूक्ष्मतया केशकूर्चकाकारा: प्रतिभान्तीति । अन्तःकरणदोषेण विभ्रमो यस्तु जायते । असत्यपि महेलादौ पुष्पेषुमुषितात्मनाम् ।। सोऽपि कश्चिद्विषयदोषसहायो भवति । स चालम्बन एव । तस्याः पाणिरिति ज्ञानं यथा भवति कुत्रचित् । कोमलानिलकल्लोलवेल्लिते बालपल्लवे ।। अनपेक्षिततत्तल्यपदार्थस्यैव या पुनः । . मानसी मन्मथोन्मादमहिम्ना मानिनीमतिः ।। तस्यामपि रागादिवासनाबलापप्लवमानस्मृत्युपस्थापितदेशकालव्यवहितोपलब्धपूर्वपुरन्ध्रीरूपादिसमुल्लेखः, न त्वेकान्तासतः खरविषाणादेरिव । प्रतिभानिद्रादिमनोदोषजन्मनि स्वप्नेऽपि दृष्टपूर्वस्यैव तस्याकारस्याल्लेखः । ज्वलज्जलगलद्वह्निद्रवदद्रयादिदर्शने । रूपमन्यस्थमन्यत्र वेत्ति न त्वसदेव तत् ।। तदेवं भ्रान्तबोधेषु नास्त्यत्यन्तासतां प्रथा । देशकालान्यथात्वं तु केवलं भाति वस्तुनः ।। 111. શ્રમજ્ઞાન અસત્ ખ્યાતિ પણ નથી કારણ કે એકાન્ત અત્ આકાશકુસુમ વગેરેને પ્રતિભ સ સંભવ નથી. દેશ અને કાળથી વ્યવહિત પહેલાં અનુભવેલા પદાર્થ વિષયક જ ભ્રમજ્ઞાન પ્રાણીઓને થાય છે, અત્યન્ત અસત પદાર્થ વિષયક ભ્રમજ્ઞાન થતું નથી. બ્રાન્તિ દ્વિવિધ છે –બાલ્વેન્દ્રિયજ અને માનસ તેમાં બાઘેન્દ્રિયજ ભ્રમજ્ઞાન વિષયદેવને લીધે કે ઈન્દ્રિયદોષને લીધે ઉન્ન થાય છે, એટલે ભ્રમણ ન ક્યારેય નિવિષયક દેખાતું નથી. ભાસ્કર રૂપના સાદયને કારણે અર્થાત વિષયદેષને કારણે છીપ રજતરૂપે દેખાય છે રણપ્રદેશમાં પરાવર્તન પામતાં Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450