Book Title: Nyayakusumanjali Author(s): Padmaprasad Upadhyay, Dhundiraj Shastri Publisher: Chaukhamba Sanskrit Series Office View full book textPage 9
________________ 'अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः / प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् // ' इति गीतादर्शनात् , 'तस्याः शिखाया मध्ये परमात्माव्यवस्थितः, स ब्रह्म स शिवः स हरिः सेन्द्रः सोक्षरः परमः स्वराट्' इति तैत्तिरीयोपनिषद्वचनाच सिद्धम् / यद्यपि 'प्राणो ब्रह्म खं ब्रह्म' इत्यादि श्रुत्या प्राणायुपासनान्यपि विहितानि, तान्यपि सत्यान्येवेति नास्ति सन्देहः / तथापि पूर्वोक्तडल्हणवचनदर्शनात् , जाठराग्नेरेवोपासनाप्रतीकत्वं वैद्यकमतसिद्धमिति प्रतीमः / सोऽयं जाठराग्निः कथमीश्वरो भवितुमर्हतीति प्रथमतः किश्चिद्विस्तरेणोच्यते / तत्र नैयायिकैः साध्यमानमीश्वरत्वं कार्यमात्रम्प्रति कर्तृत्वरूपमेव। तदुक्तं 'यं शैवाः समुपासते शिव इति ब्रम्हेति वेदान्तिनो, बौद्धा बुद्ध इति प्रमाणपटवः कर्तेति नैयायिकाः' इति / तत्तु कर्तृत्वं कार्यमात्रनिरूपितोपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमत्त्वरूपमेवेति न्यायकुसुमाञ्जलिदर्शनात् नैयायिकैः स्पष्टमेवागम्यते। यद्यपि 'स्वतन्त्रः कर्ता' इति पाणिनीयसूत्रे स्वातन्त्र्यरूपमेव कर्तृत्वमिति प्रतीयते, तच्च कारकान्तराप्रयोज्यत्वे सति स्वेतरसकलकारकप्रयोक्तृत्वरूपमेवेति वैयाकरणा वर्णयन्ति / न्यायवार्तिककारोऽप्युद्योतकर एवंविधमेव शरीरात्मनोः सादृश्यावहं कर्तृत्वं वर्णयांबभूव / तथापि निष्कृष्यमाणे स्वोपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिसमष्टिमत्येव पुरुषे तादृशं स्वातन्त्र्यं विश्राम्यतीति हेतोरेवंविधे ईश्वरत्वे सर्वेषामेतेषां अविप्रतिपत्तिरेव / अत एव ज्ञानसमर्जनार्थ प्रयत्नः सर्वसंगपरित्यागेन विद्यारसिकैः क्रियते स्वातन्त्र्यस्येश्वरस्वरूपस्य लाभायेत्यत्र नास्ति चार्वाकस्यापि विप्रतिपत्तिः / कर्तव्यविस्मरणमेव जाड्यापरपर्यायं पारतन्त्र्यापादकं भवति / ज्ञानन्तु स्वातन्त्र्यापरपर्यायेश्वरत्वापादकमिति सर्वेषां हृदयाभ्यनुज्ञातोऽयमर्थः / एवंस्थिते प्राप्ताप्राप्तविवेकेन परिपूर्णज्ञानस्येश्वरतारूपत्वे, तज्ज्ञानं किण्वादिभ्यो मदशक्तिवत् भूतपरिणामरूपमेवेति चार्वाकाः, ततोऽन्यदिति आस्तिका इति मतभेदस्थितावपि चार्वाकमतेऽपीश्वरत्वापादकं ज्ञानतत्त्वं नापहोतुं शक्यत इति वस्तुस्थितिस्तु वक्तव्यैव भवति / पाश्चात्त्यविज्ञानशास्त्रेऽपि हि सेन्द्रियविज्ञानं निरिन्द्रियविज्ञानमिति विभागद्वयं कृत्वा सेन्द्रियविज्ञानमध्ये प्राणिशरीरावयवसापेक्षोत्पत्तिकानां शर्कराततण्डुलगोधूमादीनां द्विलक्षाधिकपदार्थानां संयुक्तानां वर्णनं यदुपलभ्यते तत्तेषां निरुक्तजाठरामिमात्रसाध्यत्वादेव / वनस्पतिषु स्थितस्य पर्णहरितद्रव्यस्य सूर्यप्रकाशादेव सिद्धेः सौरशक्तरसाधारणकारणत्वमिव शुक्लपक्षे समारोपितानामेव वंशानां रोगविनिर्मुक्तानां दर्शनात् चान्द्रमसज्योतिष्यपि जीवनोपयोगित्वसिद्धस्तेजस्त्रयस्याप्यस्य जाठराग्निसाहाय्येन कार्यकरत्वं स्पष्टम् / 'लस्य मध्ये महानमिविश्वार्चिविश्वतोमुखः। सोग्रऽभुक् विभजन्तिष्ठन्नाहारम नरः कविः। तिर्यगूर्ध्वमधःशायी रश्मयस्तस्य संतता / सन्तापयति स्वं देहमापादतलमस्तकः / तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थिता। नीलतोयदमध्यस्था विद्युल्लेखेव भारवरा / नीवारशूकवत्तन्वी पीता भास्वत्त्यनूपमा / तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः'। इति तैत्तिरीयोपनिषदि सुषुम्नाकाण्डस्थितज्ञानतन्तुगतानामूर्ध्वमुखानां वेगानामाश्रयभूते वह्नौ परमात्मदृष्टयोपास्यत्वं विधीयते / 'धातवः सप्तभूतानामन्तः सप्तामयः स्थिताः। केचिदग्नय इत्येवं केचिदूष्मेति जानते। त्वगसृङमांसदोस्थिमज्जाशुक्राणि धातव / ' .. इत्यादिना भावप्रकाशनकारेण शारदातनयेन वैद्यके एतदनूदितं जाठरामिविषये / तस्योष्मरूपत्वपक्षे चरकानूदिते अनुभूतरूपत्वात् अतीन्द्रियत्वम् / सुश्रुतमते तु 'सौक्ष्म्यादसानाददानो विवेक्तुं नैव: शक्यते' इति दर्शनात् सौफ्यादनुपलब्धिः चाक्षुषप्रत्यक्षद्वारा / स्पार्शनप्रत्यक्षविषयत्वं तु उद्भूतस्पर्शत्वादुभयवादिसिद्धम् / 'कायरूपसंयमात् तात्यशक्तिस्तम्भे अन्तर्धानPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 610