Book Title: Nyayakusumanjali
Author(s): Padmaprasad Upadhyay, Dhundiraj Shastri
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 14
________________ ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन ! तिष्ठति / भ्रामयन्सर्वभूतानि यंत्रारूढानि मायया // ' ____ इति गीतावचनं प्रमाणम् / इत्थं प्राधान्येनात्र महानिबन्धे परमेश्वरतदवतारादीनां दृढप्रमाणैरवधारयितुायाचार्यविरुदावलीसमलङ्कृतस्याचार्योदयनभगवतः समयचारित्र्यायेतियं भूतपूर्वैर्वाराणसेयराजकीयसंस्कृतमहाविद्यालयीयपुस्तकाध्यक्षैः श्री पं० विन्ध्येश्वरीप्रसादद्विवेद्विमहोदयैः काशीस्थचौखम्बासंस्कृतसीरीजाभिधपुस्तकमालायां प्रकाशितायां न्यायवार्तिकभूमिकायां, तत्रैच प्रकाशिते चात्मतत्त्वविवेकेऽस्माभिरपि विस्तीर्य वर्णितप्रायमतस्तत्रैव द्रष्टव्यम् / प्राचार्येण वैशेषिके किरणापली, लक्षणावली, न्याये न्यायनिबन्धास्या तात्पर्यपरिशुद्धिः, न्यायपरिशिष्टापरपर्याया न्यायसूत्रवृत्तिरात्मतत्वविवेकश्व यया पाण्डित्यपूर्णया रचनया विरचितास्तां विदन्त्येव प्राचीनन्यायवैशेषिकदर्शनहार्दज्ञा नैयायिकाः। स चायमाचार्यप्रवर इतः पूर्व 1105 पंचाधिकैकादशशतमिते वैक्रमे वर्षे नवाधिकसप्तशत ७०९मिते शकाब्दे वा प्रादुर्भूतस्य भगवतः शंकराचार्यस्य कियत्कालानन्तरमाविबभूवेत्यत्र 'तर्काम्बराङ्कप्रमितेष्वतीतेषु शकान्ततः / वर्षेषूदयनश्चक्रे सुबोधां लक्षणावलीम् // इति तदुक्त्यैव निर्धार्यते। एतद्विरचितोयं न्यायकुसुमाञ्जलिविविधः-एको हरिदासमहेशचन्द्रन्यायरत्नप्रभृतिभिर्व्याख्यातः केवलकारिकात्मकोऽपरश्च गद्यपद्यात्मको वरदराजवर्धमानोपाध्यायादिभिष्टीकाग्रंथैः समुपबृंहितः। अस्य च पूर्व वाराणसेयचौखम्बासंस्कृतपुस्तकालयमालायां ई० 1912 हायने वर्धमानकृतप्रकाशेन, रुचिदत्तविरचितमकरन्देन च समलकृतस्य महामहोपाध्यायस्वर्गस्थ. लक्ष्मणशास्त्रिभिः संस्कृतस्य प्रकाशनमभूत् , किन्तु तस्याधुनाऽप्राप्यत्वाद्बोधिन्याश्च वरदराजकृताया वाराणसेयराजकीयसररवतीभवनात्प्रकाशिताया दुष्प्रापतया चास्मिन्संस्करणे बोधिनी, मेघठक्कुरकृतं जलदापरपर्यायं प्रकाशिकाख्यं प्रकाशव्याख्यानं, मैथिलनैयायिकश्रीबच्चामाकृता टिप्पणी च संनिवेशिता / एवं समुदितव्याख्यात्रयोपेतप्रकाशबोधिनीसहितस्य सर्वाङ्गपरिपूर्णस्य न्यायकुसुमांजलेः प्रातःस्मरणीयानामस्मद्गुरुप्रवराणां महामहोपाध्यायानां श्रीवामाचरणभट्टाचार्याणामन्तिमान्तेवासिभिया॑याचार्यश्रीपद्मप्रसादभट्टराइभिर्महता श्रमेणारब्धेऽस्य संपादने तेषां नेपालराजकीयकाठमाण्डूस्थितराजकीयसंस्कृतमहाविद्यालये प्रधानाचार्यत्वेन नियुक्ततया तत्र गमनेन तृतीयस्तबकमारभ्य काशीस्थचौखम्बासंस्कृतपुस्तकालयाध्यक्षैःश्रेष्ठिकुलावतंसैर्जयकृष्णदासमहोदयैरस्य संस्करणस्यावशिष्टसंपादनकार्येऽहं न्ययोजिषि। ऐषमे संस्करणे प्रकाशमकरन्दसहितं पूर्वनिर्दिष्टमेकमेव पुस्तकं प्रायशः शुद्धमादर्शत्वेनावलम्बितम् / जलद( प्रकाशिका )टिप्पण्योश्चादर्शपुस्तकाश्रयेण * लेखकलिखिते भट्टराइमहोदयैः संशोधिते द्वे एव / बोधिन्याश्च वरदराजकृताया उपरिनिर्दिष्टं प्रायः शुद्धमेकमेष पुस्तकमादर्शभूतमस्माभिरुपलब्धम् / स चायं वरदराजः कस्मिन्समये बभूव, मध्यकौमुदीलघुकौमुद्योाकरणग्रंथयोस्सम्पादकाद्भिन्नः स एव वेति सन्देहे प्रायशो मिथिलादेशवासी रामदेवमिश्रतनूजोऽयमीस्वीयपंचदशशताब्यां बभूवेति वदन्त्यतिमाः / कुसुमांजलिहार्दप्रकाशनपुरस्सरमक्षरार्थसंगतिद्वारा व्याख्यां प्रकुर्वाणेन वरदराजेनाऽन्येभ्यो व्याख्याकारेभ्यः प्रथितनैयायिकप्रचुरभारतवर्षा

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 610