Book Title: Nyayakusumanjali
Author(s): Padmaprasad Upadhyay, Dhundiraj Shastri
Publisher: Chaukhamba Sanskrit Series Office

Previous | Next

Page 12
________________ मनपह्नवनीयतां गतमस्ति / तथा हि कुसुमाञ्जलिग्रन्थे 'कार्यायोजनधृत्यादेः पदात्प्रत्ययतः श्रुतेः / - वाक्यात्सङ्ख्थाविशेषाच साध्यो विश्वविदव्ययः / ' इति पद्ये अष्टविधेषु अनुमानेषु ब्रह्माण्डविषयीणि कार्यायोजनधारणानि पक्षीकृत्येश्वरानुमानमुक्तं तत्तु ब्रह्माण्ड इव पिण्डाण्डेऽपि स्वतन्त्रनाडीतन्त्रकृतं शरीरनिर्माणात्मकं कार्य, तदारम्भकपरमाणुप्रेरणात्मकमायोजनं, जीवतः शरीरधारणात्मकञ्च पक्षीकृत्य सम्यगवगन्तुं शक्यते | ‘पदात्प्रत्ययतः श्रुतेः' वाक्याच नादसापेक्षात् ईश्वरानुमानं पूर्वोक्तनादप्रक्रियया स्वतन्त्रनाडीतन्त्रमूलिकया स्पष्टमवगन्तुं शक्यत इति पराहन्तानुभवानुसारेण एकस्मिन्सविषयकज्ञाने स्थिरीकृते सति तदनुसारिमनननिदिध्यासनादिद्वारा जीवस्यापि सर्वज्ञत्वसिद्धिरप्रत्यूहा भवति / अत एव - स्वर्गापवर्गयोरिमामनन्ति मनीषिणः / यदुपास्तिमसावत्र परमात्मा निरूयते // न्यायचर्चेयमीशस्य मननव्यपदेशभाक् / उपासनैव क्रियते श्रवणानन्तरागता // .. ___ इत्युक्तं न्यायकुसुमाञ्जलौ। इयांस्तु विशेषः-अद्वैतवादिनां द्वैतवादिनाञ्चेश्वरविषयविवादे मध्यसेतुभूतास्तत्रभवन्त उदयनाचार्याः स्वकीयया अलौकिक्या नैयायिकपरिभाषया ईश्वरतत्त्वमनुमानद्वारा उभयाविरुद्धं साधयन्ति, तदुपयोगिपञ्चावयववाक्यप्रयोगस्यैव सम्पूर्णेऽस्मिन्प्रन्थे उपलभ्यमानत्वात् / अन्तरा अनूद्यमाने जीवेश्वरभेदादौ तु अनूद्यमानत्वमेव न विधेयत्वम् , तदुपयोगिपश्चावयववाक्यप्रयोगस्यात्र ग्रन्थे क्वचिदप्यदर्शनात् , प्रत्युत 'न ग्राह्यभेदमवधूय धियोऽस्ति वृत्तिस्तद्बाधने बलिनि वेदनये जयश्रीः। . नोचेदनिन्द्यमिदमीदृशमेव विश्वं तथ्यं तथागतमतस्य तु कोऽवकाशः // ' . (आत्मतत्त्वविवेके ) इत्यादिना आवायुर्वेदैकसिद्ध परमेश्वरतत्त्वे स्वतात्पर्यमाविष्कृतमन्यत्र, अतः प्रामाणिकानामयमत्यन्तमुपादेयः कुसुमाञ्जलिग्रन्थ इति न तिरोहितमस्ति विदुषाम् / नैयायिकानामपि परलोकधर्माधर्मविषयेषु नैयायिकप्रक्रियानुरोधिविप्रतिपत्त्याद्यभ्यासार्थ बहुटीकासनाथः विशेषतो मिथिलामण्डलमण्डनायमाननैयायिकवरपूज्यबच्चाझामहोदयकृतटीकोपबृंहितोऽयं प्रन्थो अतीव प्रकाशकरो वर्तत इति उचिततममुपादेयतमश्चैतत्प्रक शनं श्रीमता श्रेष्ठिवरेण जयकृष्णदासगुप्तमहोदयेन कृतं प्रत्यक्षपरोक्षानुमानलक्षणप्रमाणत्रयनिर्णीतेष्टसाधनताककर्मानुष्ठानरूपभारतीयराजनीतिरूपमेवेति सहर्षमस्माभिरनुमोद्यते / इति / -occmo

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 610