Book Title: Nyayakusumanjali
Author(s): Padmaprasad Upadhyay, Dhundiraj Shastri
Publisher: Chaukhamba Sanskrit Series Office

Previous | Next

Page 10
________________ सपतः। मिति' योगसूत्रदर्शनात् सिद्धिविरोषबलात् रूपस्य सूक्ष्मत्वेऽपि स्पर्शस्य स्थौल्यमुपपद्यत एव / सोयं जाठराग्निः 'सोऽग्रभुक् विभजन्तिष्ठन्नाहारमजरः कविः' इति वेदे ववित्वेनोपवर्णितः / कविः क्रान्तदर्शी इति प्रामाणिकव्याख्यादर्शनात् कुसुमाञ्जलिनिर्दिष्टं सर्वज्ञत्वमस्यैव जाठरामेस्वगम्यते / स्पष्टमुक्तं च भावप्रकाशने शारदातनयेन : 'सोऽपि त्रैविध्यमन्विच्छन् विराट्पुरुष ईश्वरः। बीजत्रयेण भिन्नः स्यात्सोमसूर्याग्निरूपिणा / स रुद्रोपेन्द्रपद्मोत्थगुणत्रयविभेदिना।. .. षण्णवत्यङ्गुलायाम सर्वेषाश्च शरीरिणाम् / शरीरं तस्य मध्यः स्यादाधारः कन्दसंज्ञितः / वलयत्रितयाकारः सोमसूर्याग्निमण्डलैः। . वह्नः शिखा तस्य मध्ये नीपान्तःकेसराकृतिः। . परा प्रकृतिरेषा स्यादम्बिकेत्यपरे जगुः / / इत्यादिना मूलाधारोत्थिताया सुषुम्नाकाण्डान्तर्गतीर्ध्वमुखवेगधराया जाठराग्निशिखायाः 'ज्ञानरूपधारिण्या आधुनिकविज्ञानसिद्धं वर्णनं कृतं तदपि अत एवोपपद्यते। अस्याग्नेः शरीरारोग्यसम्पादकत्वं शरीरवर्धकत्वं च कुम्भकप्राणायामावस्थायामेव भवति समानवायुसबारे सतीति / . 'समानोमिसमीपस्थः कोष्ठे चरति सर्वतः / अन्नं गृह्णाति पचति विवेचयति मुञ्चति'। * इत्यादि भावप्रकाशनवचनं सङ्गच्छते / अत एव पापकर्मणि कृतेअनृते चोक्ते वक्तुपिच्छायमुखत्वं जाठराग्नेः कोपादेव रुधिरधाराया यथावदपरिपच्यमानतया भवति, इति स्पष्टमेवास्येश्वरत्वम् / यद्यपि जाठरोऽग्निः नैयायिकैः तैजसविषयमध्ये परिगणितः, ईश्वरस्तु आत्मभेदान्तर्गतः स्वतन्त्रद्रव्यत्वेन; तथापि 'देवताः सन्निधानेन प्रत्यभिज्ञानतोपि वा / इति कुसुमाञ्जलिग्रन्थ एव विषयरूपेऽपि जाठरे हव्यवाहे ईश्वराहङ्कारास्पदत्वरूपं तच्छरीरत्वं नैयायिकैरभ्युपगम्यत एवेति स्वीकृतत्वान्नेयं कल्पना तद्विरोधिनी। ... ... 'यदादित्यगतं तेजो जगद्भासयतेऽखिलम् / यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् / गामाविश्य च भूतानि धारयाम्यहमोजसा / पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः। अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः / प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम्'। इति भगवद्गीतोपबृंहणमुपर्युक्त एवार्थेऽनुकूलं दृश्यते / ... यद्यपि सोमसूर्याग्नीनामत्यन्तसात्त्विकतया तदवच्छिन्नचैतन्यस्यैव प्रकटतमत्वादुपारयत्वमैदम्पर्येणात्र विहितमिति स्थितिः, तथापि 'तत्तेजो विद्धि मामकमिति-पुनस्तेजःपदोपादानात् शुक्लभारवररूपवतस्तदीयतेजसोऽपीश्वरदृष्ट्योपास्यत्वं समर्थितं तयाख्यातृभिः / तेन आयुर्वेदतैत्तिरीयोपनिषद्दीतानामेकवाक्यत्वोपपत्तिः। - मेस्मेरिजमवादिभिरुच्यमानं प्राणतेजोऽपीदमेव, यत् पाश्चात्त्यन्यायालयेऽपि निर्णीय स्वीकृतमिति नात्र विषये कस्यापि विप्रतिपत्तिरवशिष्टा / / ..... एवं स्थिते. स्वोपादानगोचरापरोक्षज्ञानचिकीर्षासमष्टिरूपे. ईश्वरतत्त्वे सर्वाभीप्सिते तस्य "किण्वादिभ्यो मदशक्तिवदिति, जडभूतपरिणतिमात्ररूपत्वे, भूतव्यक्तिभेदेन भिन्नत्वे, आनन्त्यं प्रति 2 न्या० कु०

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 610