Book Title: Nyayakusumanjali Author(s): Padmaprasad Upadhyay, Dhundiraj Shastri Publisher: Chaukhamba Sanskrit Series OfficePage 11
________________ व्यक्त्यपरिपूर्णत्वश्च चार्वाकेन वक्तव्यम् यत्र स्वभाववादस्योत्थितिः, लाघवादेकत्वं नित्यत्वं च, अतः सर्वविषयकत्वात् पराहन्तारूपत्वमास्तिकानां पक्षः। तत्रापि तादृशसर्वज्ञत्वस्य योगजधर्मजन्यत्वेन, अनित्यत्वेनानीश्वरापादकत्वं बौद्धानां पक्षः। कर्मणो जडस्य परिणतिमात्रत्वमिति पूर्वमीमांसकानाम् / एतत्पक्षत्रयनिराकरणेन नित्यैकज्ञानादिरूपत्वं नैयायिकवेदान्तितान्त्रिकादीनामितरास्तिकानां सिद्धान्त इति कुसुमाञ्जलिग्रन्थे सम्यगालोचिते सिद्ध्यति / (१)साहित्यप्रक्रियारसारवादवेलायां साधारणीकरणव्यापारेण पराहन्ताया वेदान्तदर्शनसिद्धसाक्षिरूपायारतादात्म्येन जगद्भासनदर्शनात् प्रत्यक्षानुभवसिद्धोऽप्ययमास्तिकानां पक्षः भेदवादिपतितैः कुतार्किकैः नारितकैरपलप्यते, इति स्वाङ्गीकृतप्रत्यक्षप्रामाण्यविरुद्धोऽपि केषाञ्चिदेव पुण्यवतामारितकानामनुभूतिपथगामी भवति / तदुक्तं ईश्वरानुग्रहादेषा पुंसामद्वैतवासना / महाभयकृतत्राणाद्वित्राणामेव जायते // इति / . केवलमास्तिकानां पूर्वमीमांसकानां पक्षः किश्चिदिवालोचनामर्हति / दहराकाशमव्यस्थसहस्रदलशोभिते। . विस्फुरत्केसराश्लिष्टकर्णिके पङ्कजोदरे। ... आत्मा निःसङ्ग एवैकः साक्षी सर्वस्य कर्मणः। .. तस्य स्यामिति सङ्कल्पोमनाख्यां लभेत्तु सः। मनोऽधितिष्ठति प्राणपूर्वान् पञ्च समीरणान् / तेधातून् व्याप्य धमनीमुखेभ्यस्तत्र सम्भवान् / - अग्नीन् प्रज्वलयन्त्येव तेभ्यो नादः प्रवर्तते / इति भावप्रकाशनकारेण वैयाकरणसम्मतस्य चिदचिन्मिश्रसंचलनरूपस्य नादात्मकस्य चेतनस्य शब्दस्य मध्यमानादरूपस्य प्रणवांशरूपस्य मूर्वोक्ताग्न्युद्भवत्वं वर्णयताऽग्निप्रज्वलनं प्रत्याधुनिकवैज्ञानिकदृष्टयापि लघुमस्तिष्कसमीपस्थितप्राणगुहासमीपस्थप्राणदानाडीप्रेरणाधीनफुफ्फुसद्वयसंकोचविकासाधीनप्राणादिवायुसञ्चारणप्रयोजकीभूतं बृहन्मस्तिष्कस्थितज्ञानकेन्द्रसमीपवृत्तीच्छाशक्तिरूपेश्वरसङ्कल्पात्मकमनसः सामर्थ्यमुपवर्णितं यदस्ति तत्र बृहन्मस्तिष्कस्थितस्य जीवैरज्ञातसामर्थ्यस्य समस्तकर्मसाक्षिणः परमात्मन एव सिद्धिरुक्ता, या ‘एको देवस्सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा / कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलों निर्गुणश्च' इति श्रुतिसिद्धा। 'विस्फुरत्केसराश्लिष्टकर्णिके पङ्कजोदरे' इति भावप्रकाशनवाक्ये ऊर्ध्वाधोमुखवेगवाहिनीनां नाडीनां विरफुरत्ताया वर्णनदर्शनात् मस्तिष्काख्यपङ्कजकेसररूपत्वं वर्ण्यमानं दृष्ट्वा नाडीतन्त्रविज्ञानमाधुनिकं सर्वमपि प्राचामवगतमासीदिति स्पष्टमेव वर्णयितुं शक्यते आस्तिकैः। तत्र स्वतन्त्रनाडीनां स्वतन्त्रेच्छाशक्तिक्षेत्राणाश्च जीवानधिष्ठितानामधिष्ठानमिच्छाशक्तिक्षेत्रसाहाय्येनैव जीवाज्ञातज्ञानशक्तिक्षेत्रभूतैः मस्तिष्कभानैः क्रियत इति आधुनिकविज्ञानसिद्धत्वात् / नादोत्पत्ति प्रक्रिया इयं सर्वापि कुसुमाञ्जलौ अंशतः सूचिता दृश्यते / तथा च मीमांसकानामपि ईश्वरास्तित्व (1) चित्रादाविव स्वसादृश्यदर्शिनो राज्ञ इति तत्रत्यटीकादर्शने चित्रतुरगन्यायः काव्यप्रकाशोक्तः पुरत आगच्छति तत्रत्यचित्रतुरगन्यायः आहार्यारोपरूप एव इति यद्यपि वर्धमानभगीरथठक्करमकरन्दादिग्रन्थदर्शनेनावगम्यते, अतश्च स भ्रम इति शङ्कितुं शक्यतेऽपि / तथापि गोकुलनाथोपाध्यायकृतविवरणरीत्या रेखातुरगैतदुभपर्याप्त कविशेष्यतानिरूपिततदीयसन्निवेशविशेषतुरगत्वोभयनिष्ठेकप्रकारताकालौकिकज्ञानविशेषरूपे चित्रतुरगप्रत्ययेऽङ्गीक्रियमाणे तभ्रमत्वस्य वक्तुमशक्यत्वाद्देवतादीनामीश्वरस्य च प्रतिमादिषु तादृशसन्निधिरूपाहङ्कारममकारयोरङ्गीकारे आहार्यारोपकल्पनानुपयुक्तव, अतः रसप्रतीतिमनुसृत्याग्रे वक्ष्यमाणरीत्या सर्वरचनागतः स्वात्मतादात्म्यापन्नतया अनुभूयमानत्वं न भ्रमकृतमिति शङ्कनीयम् /Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 610