Book Title: Nyayakusumanjali
Author(s): Padmaprasad Upadhyay, Dhundiraj Shastri
Publisher: Chaukhamba Sanskrit Series Office

Previous | Next

Page 15
________________ (8) दन्यत्राप्यनेन व्याख्यानेन कुसुमांजलिरहस्यजिज्ञासूनामीश्वरेऽनास्थां विदधतां गीर्वाणवाणीसुबुद्धानां वैदेशिकानामुपकृतिर्भवेदिति बोधनी विरचितेति वैलक्षण्यमत्र प्रतीयते यतस्तेनैवोक्तं मङ्गलान्ते औदयने पथि गहने विदेशिकः प्रतिपदं स्खलति लोकः / ___ तस्य कृते कृतिरेषा कुसुमांजलिबोधनी जयतीति // .. लघुकौमुद्यादिरचयिता तु वरदराजोऽस्माद्भिन्न एवेति प्रतीयते / यद्यपि पंचदशशताब्द्या अन्ते वर्तमानेन रामचन्द्रविदुषा रचितायाः प्रक्रियाकै मुद्या व्याख्याता वरदराजोऽपि तत्समय एव प्रायशो बभूव, अन्नभट्टादिवन्न्यायव्याकरणादिशास्त्रपांडित्यमपि तस्य संभवतीत्यत्रापि न कापि क्षतिस्तथापि तस्य जनको भद्र''नामोत्तरप्रदेशवासीति विभिन्न एवायं वरदराज इति सिद्धान्तः / पूर्वमीमांसाभिज्ञः कश्चिदन्योऽपि वरदराज इति मीमांसकाः प्राहुः। . 'न्यायकुसुमाञ्जलिप्रकाशकारी न्यायाद्यनेकशास्त्रपारावारपारदृश्वा वर्धमानोपाध्यायस्तु मिथिलादेशे दरभङ्गामण्डलान्तर्गत करियन'ग्रामे जातस्तत्त्वचिन्तामणिकृद्शशोपाध्यायस्यापरगौतममूर्तेरात्मजः / अत एवोक्तं न्यायकुसुमांजलिप्रकाशारम्भे न्यायाम्भोजपतङ्गाय मीमांसापारदृश्वने / गङ्गेश्वराय गुरुवे पित्रेऽत्र भवते नमः // इति / 'यस्तर्कतन्त्रशतपत्रसहस्ररश्मि'रित्यादिकिरणावलीप्रकाशे च वर्धमानोपाध्यायाः / अस्य गणरत्नमहोदधिकारस्य च तत्तद्ग्रन्थेषु वर्धमाननाम्नैव प्रसिद्धिसत्त्वेऽपि समयैक्यासंभवाद्गुरोर्नामभेदाच गणरत्नमहोदधिकारोऽन्यः स्वकीयग्रन्थे जैनेषु गौरवं प्रदर्शयन् जैन इति प्रतीयते, स च वर्धमानसूरिंगोविन्दसूरिशिष्य इति तवृत्तौ स्वयमेव लिखितवान् / सप्तनवत्यधिकेष्वेकादशसु शतेष्वतीतेषु / . वर्षाणां वक्रिमतो गणरत्नमहोदधिर्विहितः // .. इत्यप्युक्तम् / अनेन च गौतमसूत्रतत्त्वचिन्तामणिन्यायलीलावतीप्रभृतयोऽनेके ग्रन्था व्याख्याताः / किरणावल्याद्या आचार्यग्रन्था अपि सर्वे व्याख्याताः। स चायं मिथिलादेशजातो विद्वद्वरेण्यः दशमशतायां वर्तमानादुदयनाचार्यादनन्तरकालिको द्वादशशताब्यां बभूवेति निर्धारितमस्माभिायलीलावतीभूमिकायाम् / - कुसुमांजलिप्रकाशग्रन्थस्य प्रकाशिकाख्यव्याख्याकारो भगीरथठक्कुरापरपर्यायो मेघठक्कुरोऽपि मैथिलः। अयं च पक्षधरमिश्रशिष्य इति किंवदन्ती, 'विशाब्दे जयदेवपण्डितकवेरि'त्याद्यभियुक्तोक्त्या चायं जयदेवसमकाले विंशाब्दे तदनन्तरं वा विंशाब्दे बभूवेति इतिहासतत्त्वज्ञाः / अनेनापि वर्धमानोपाध्यायनिर्मिताः सर्वे प्रकाशग्रंथा व्याख्याता इत्यनुमीयते। उपलभ्यन्ते च किरणावलीप्रकाशप्रकाशिका, न्यायलीलावतीप्रकाशप्रकाशिका एतदतिरिक्ता प्रन्याः। ..... - प्रकाशव्याख्यां मकरन्दाभिधया टीकया समुद्भासयतो महामहोपाध्यायरुचिदत्तमिश्रस्य विषये त्वियं किंवदन्ती जागर्ति-यदेष मिथिलामण्डलान्तर्गतसोदरपुरवास्तव्यो देवदत्तमिश्रसूनुः

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 610