Book Title: Nemi Nirvanam Ek Adhyayan
Author(s): Aniruddhakumar Sharma
Publisher: Sanmati Prakashan

View full book text
Previous | Next

Page 232
________________ २१८ श्रीमद्वाग्भटविरचितं नेमिनिर्वाणम् : एक अध्ययन तारकाः क्व नु दिवोदितद्युतो विद्युतोऽपि न वियत्यनम्बुदे । क्वाप्यनेसि न वह्नयो महस्तात्कमेतदिति दत्तविस्मयाः ।। प्रजल्पितां जलरुहहर्म्यया गिरं निशम्य तां स तनयचिन्तयोज्झितः । प्रभुर्भुवः सपदि बभूव भासुरः प्रभापतिर्जलधरलेखया यथा । । एवं तावदेव किल कापि वल्लकीवेणुहारि हरिणेक्षणा जगौ । यावदर्थपतिकान्तयोदितां नाशृणोदमृतवाहिनीं गिरम् ।।। रणज्झणन्मणिमयकंकणोत्करैः करैरुदीरितजयजल्पितैरिव । उदक्षिपत्क्षितिपकलत्रपार्श्वयोः प्रकीर्णके मुहुरमरांगनाजनः ।। ... . एवं रणझणत्किंकिणिकारवेण संभाष्य यत्राम्बरमार्गखिन्नम् । मरुच्चलत्केतनतालवृन्तैहावली वीजयतीव मित्रम् । तस्याः शरीरमपदोषमशेषकान्तिमाधुर्यमार्दवमुखैश्च गुणैगरीयः । काम्यं सुकाव्यमिव जातमलंकृतीनां योगेन रूपकसमुच्चयदीपकानाम् ।। . एवं श्रव्यं भवेत्काव्यमदूषणं यन्न निर्गुणं क्वापि कदापि मन्ये । गुणार्धिनो दूषणमाददानस्तत्सज्जनादुर्जन एव साधुः । (झ) श्रीजिनस्य यशसा जगद्बहिः सर्पतेव वपुरन्तरस्थितेः । वासरैः कतिपयैर्नृपप्रिया प्राप पक्वशरपाण्डुरं वपुः ।। एवं अन्तर्वपुः प्रणयिनः परमेश्वरस्य, निर्ययशोभिरिव सा परिरभ्यमाणा । स्वल्परहोभिरभितो घनसारसार-क्लृप्तोपदेहमिव देहमुवाह देवी ।। १. धर्मशाभ्युदय, ५/२ २. नेमिनिर्वाण, २/२९ ३. धर्मशर्माभ्युदय, ५/५३ ४. मिनिर्वण, २/३६ ५. धर्मशर्माभ्युदय, १/७७ ६. नेमिनिर्वाण, ३/३४ ७. धर्मशर्माभ्युदय, १/२५ ८. नेमिनिर्वाण, ४/५ ९. धर्मशभ्युिदय, ६/३

Loading...

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252