Book Title: Navtattva Prakaran
Author(s): Pravinchandra K Mota
Publisher: Gitarth Ganga
View full book text
________________
નવતત્વ પ્રકરણ | ગાથા-૫૦
१४3
ततोऽन्तरायज्ञानघ्नदर्शननान्यनन्तरम् । प्रहीयन्तेऽस्य युगपत्, त्रीणि कर्माण्यशेषतः ।।३।। गर्भसूच्यां विनष्टायां, यथा तालो विनश्यति । तथा कर्म क्षयं याति, मोहनीये क्षयं गते ।।४।। ततः क्षीणचतुःकर्मा, प्राप्तो यथाख्यातसंयमम् । बीजबन्धननिर्मुक्तः, स्नातकः परमेश्वरः ।।५।। शेषकर्मफलापेक्षः, शुद्धो बुद्धो निरामयः । सर्वज्ञः सर्वदर्शी च, जिनो भवति केवली ।।६।। कृत्स्नकर्मक्षयादूर्वा, निर्वाणमधिगच्छति । यथा दग्धेन्धनो वह्निनिरुपादानसन्ततिः ।।७।। दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्कुरः । कर्मबीजे तथा दग्धे, नारोहति भवाङ्कुरः ।।८।। तदनन्तरमेवोर्ध्वमालोकान्तात् स गच्छति । पूर्वप्रयोगासङ्गत्वबन्धच्छेदोर्ध्वगौरवैः ।।९।। कुलालचक्रे दोलायामिषौ वाऽपि यथेष्यते । पूर्वप्रयोगात् कर्मेह, तथा सिद्धिगतिः स्मृता ।।१०।। मृल्लेपसङ्गनिर्मोक्षाद्, यथा दृष्टाऽप्स्वलाबुनः । कर्मसङ्गविनिर्मोक्षात्, तथा सिद्धिगतिः स्मृता ।।११।। एरण्डयन्त्रपेडासु, बन्धच्छेदाद् यथा गतिः । कर्मबन्धनविच्छेदात्, सिद्धस्यापि तथेष्यते ।।१२।। ऊर्ध्वगौरवधर्माणो, जीवा इति जिनोत्तमैः । अधोगौरवधर्माणः, पुद्गला इति चोदितम् ।।१३।। यथाऽधस्तिर्यगूज़ च, लोष्टवाय्वग्निवीतयः । स्वभावतः प्रवर्तन्ते, तथोर्ध्वं गतिरात्मनाम् ।।१४ ।। अतस्तु गतिवैकृत्यमेषां यदुपलभ्यते । कर्मणः प्रतिघाताच्च, प्रयोगाच्च तदिष्यते ।।१५।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182