Book Title: Navtattva Prakaran
Author(s): Pravinchandra K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 159
________________ १४४ अधस्तिर्यगथोर्ध्वं च, जीवानां कर्मजा गतिः । ऊर्ध्वमेव त तद्धर्मा भवति क्षीणकर्मणाम् ।। १६ ।। द्रव्यस्य कर्मणो यद्वदुत्पत्त्याऽऽरम्भवीतयः । समं तथैव सिद्धस्य, गतिमोक्षभवक्षयाः ।। १७ ।। उत्पत्तिश्च विनाशश्च, प्रकाशतमसोरिह । युगपद् भवतो यद्वत्, तथा निर्वाणकर्मणोः ।। १८ ।। तन्वी मनोज्ञा सुरभिः, पुण्या परमभास्वरा । प्राग्भारा नाम वसुधा, लोकमूर्ध्नि व्यवस्थिता ।।१९।। नृलोकतुल्यविष्कम्भा, सितच्छत्रनिभा शुभा । ऊर्ध्वं तस्याः क्षितेः सिद्धा, लोकान्ते समवस्थिताः ।। २० ।। तादात्म्यादुपयुक्तास्ते, केवलज्ञानदर्शनैः । सम्यक्त्वसिद्धतावस्था, हेत्वभावाच्च निष्क्रियाः ।। २१ ।। ततोऽप्यूर्ध्वगतिस्तेषां कस्मान्नास्तीति चेन्मतिः । धर्मास्तिकायस्याभावात् स हि हेतुर्गतेः परः ।। २२ ।। Jain Education International , , નવતત્ત્વ પ્રકરણ | ગાથા-૫૦ , संसारविषयातीतं मुक्तानामव्ययं सुखम् । अव्याबाधमिति प्रोक्तं, परमं परमर्षिभिः ।। २३ ।। स्यादेतदशरीरस्य, जन्तोर्नष्टाष्टकर्मणः । कथं भवति मुक्तस्य, सुखमित्यत्र मे शृणु ।। २४ ।। लोके चतुविहार्थेषु, सुखशब्दः प्रयुज्यते । विषये वेदनाभावे, विपाके मोक्ष एव च ।। २५ ।। सुखो वह्निः सुखो वायु, विषयेष्विह कथ्यते । दुःखाभावे च पुरुषः, सुखितोऽस्मीति मन्यते । । २६ ।। पुण्यकर्मविपाकाच्च, सुखमिष्टेन्द्रियार्थजम् । कर्मक्लेशविमोक्षाच्च, मोक्षे सुखमनुत्तमम् ।।२७।। सुखप्रसुप्तवत् केचिदिच्छन्ति परिनिर्वृतिम् । तदयुक्तं क्रियावत्त्वात्, सुखानुशयतस्तथा ।। २८ ।। For Personal & Private Use Only www.jainelibrary.org


Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182