________________
रत्नाकरपञ्चविंशिका |
प्रकाशितं तद् भवतो हियैव, सर्वज्ञ ! सर्व स्वयमेव वेत्सि ॥ ११ ॥
ध्वस्तोsन्यमन्त्रैः परमेष्ठिमन्त्रः, कुशास्त्रवाक्यैर्निहतागमोक्तिः । कर्तु वृथा कर्म कुदेवसङ्गा
दवाञ्छि ही नाथ ! मतिभ्रमो मे ॥ १२ ॥
विमुच्य दृग्लक्ष्यगतं भवन्तं, ध्याता मया मूढधिया हृदन्तः । कटाक्षवक्षोजगभीरनाभि
कटीतटीयाः सुदृशां बिलासाः ॥ १३ ॥ लोलेक्षणावक्त्रनिरीक्षणेन,
यो मानसे रागलवो विलग्नः ।
न शुद्धसिद्धान्त पयोधिमध्ये,
धौतोऽप्यगात्तारक ! कारणं किम् ? ॥ १४ ॥ अङ्गं न चङ्गं न गणो गुणानां,
न निर्मलः कोऽपि कलाविलासः । स्फुरत्प्रभा न प्रभुता च काऽपि, तथाऽप्यहङ्कारकदर्थितोऽहम् ॥ १५ ॥ आयुर्गलत्याशु न पापबुद्धि
र्गतं वयो नो विषयाभिलाषः ।
यत्नश्च भैषज्यविधौ न धर्मे,
स्वामिन्! महामोह विडम्बना मे ॥ १६ ॥
Jain Education International
६७
For Private & Personal Use Only
www.jainelibrary.org