Book Title: Navpad Prakaranam Author(s): Jinendrasuri, Publisher: Harshpushpamrut Jain Granthmala View full book textPage 8
________________ नवपदवृत्तिःमू.देव. वृ. यशो ॥७॥ स्वेष्टमीप्संति तत् त एव जानन्ति । किंच-अत्र वृत्तौ २४२-२६० तमपत्रयोः सामायिकविधाने सुदर्शनकथानके च श्रीवसुदेवसूरय उल्लिखिताः, ज्ञायते चातस्तेषामप्यनेकग्रन्थकर्तृकता, परं न क्वापि उपलभ्यन्ते ग्रन्थास्तेषां विद्यमानभांडागारेषु, केवलं तैर्वसुदेवसूरिभिर्विहितं क्षान्तिकुलकमेकमुपलभ्यते, तच्च मुद्रितं अष्टाविंशतिप्रकरणमये ‘पयरणसंदोह' नामके ग्रन्थे, अन्यच्च-वसुदेवसूरीणां कः सत्ताकाल इति प्रश्ने यद्यपि यथावनोपलभ्यते ऐतिह्यं परं हस्तिकुण्डिकागच्छीयश्रीशान्तिभद्रसूरिगुरवः रामवसुनन्दमितेषु विक्रमीयाब्देषु सत्तावन्त इति श्रीहस्तिकुण्डिकापुरीयरातामहावीरजिनालयप्रशस्तितोऽवगम्यते, प्रशस्तिरियमधुना अजमेरुसत्कसंग्रहस्थानेऽस्ति, यतस्तत्र प्रशस्तौ विदग्धनृपतिना ९९३ वर्षे श्रीवासुदेवाचार्याय दत्तं तच्चैत्यं ९९६ वर्षे मम्मटेन समर्थित चेत्युक्तं, तथा पुनरपि तच्छिप्यान् शान्तिभद्रानाश्रित्य प्रोद्यत्पद्माकरस्य प्रकटितविकटाशेषभावस्य सूरेः, सूर्यस्येवामृतांशुं स्फुरितशुभरुचिं वासुदेवाभिधस्य । अध्यासीनं पदव्यां यममलविलसज्झानमालोक्य लोको, लोकालोकावलोकं सकलमचकलत् केवलं संभवीति ॥३०॥शान्त्याचार्यैस्त्रिपञ्चाशे, सहस्रे शरदामियम् ॥ माघशुक्लत्रयोदश्यां, सुप्रतिष्ठैः प्रतिष्ठिता ॥३७॥ तथाच त्रिपञ्चाशदधिकसहस्राब्देषु सत्तामतां श्रीशान्तिभद्राचार्याणां भावात् तद्गुरूणां दशमशताब्द्यां सत्ता नासंभविनी, श्रीमन्तो लावण्यसमयास्तु प्रभावकतया ख्यातं बलभद्रमुनिं वासुदेवाचार्यमेवादिशन्ति, विशेषार्थिनां तत्कृतो बलभद्ररासकोऽवलोक्यः, अस्माभिस्तु तदा बौद्धानामत्रासम्भवात् खेङ्गारराजसमये आमराजस्य श्रीमतां बप्पभद्देश्च तत्रोज्जयन्ते आगमनं तेषामेव जयावाप्तिश्चेतिद्वयमभ्युपगच्छता तन्नावगतं यथावदिति नोल्लिखितमत्र । अन्यच्च वृत्तिरेषा प्रसिद्धतमा विदुषां विशेषतः खरात्मजानां, यतस्ते समालम्ब्यैनां सामायिकोच्चारादनु ईयाप्रतिक्रमणं विशेषेण स्थापयन्ति, वस्तुतस्तु भ्रम एव तेषामत्र, दृश्यतां तावत् प्रस्तुतग्रन्थस्थ एतद्विषयकः पाठः "आवश्यकचूाद्युक्तसामाचारी त्वियम्-सामायिकं कथं कार्य ?, तत्रोच्यते-श्रावको द्विविधः-अनृद्धिप्राप्त ऋद्धिप्राप्तश्च, तत्राद्यश्चैत्यगृहे साधुसमीपे । R ॥७॥ Jain Educs emabonal For Personal & Private Use Only - wwlsoklorary.orgPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 334