Book Title: Navpad Prakaranam
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 10
________________ विपदत:मू.देव. यशो ॥९॥ पि निषेधपदवामति प्रान्त्यवाक्य श्राद्धाचैतत् । अष्टम्यादिपर्वसु-अष्टमीचतुर्दश्यादिषूत्सवतिथिषु, यदुक्तं "पोसहउववासोउण अट्ठमीचउद्दसीसु जम्मदिणे । नाणे निव्वाणे चाउमास अट्टाहिपज्जुसणे ॥११॥ अट्ठाहित्ति अष्टाहिकाः चैत्राश्वयुङ्मासानध्यायदिनेषु अष्टमीप्रभृतयो याः क्रियन्ते तासु कल्याणकदिनाष्टाहिकासु वा, एतेषु च दिनेषु सुश्रावकस्य जिनपूजातपोऽनुष्ठानविशेषोद्यमो भणित एव, यदाह धर्मदासगणिः-संवच्छरचाउम्मासिएसु अट्ठाहियासु य तिहीसु । सव्वायरेण लग्गइन जिणवरपूयातवगुणेसु॥१॥" अत्र प्रथमं तावत् आहारशरीरसत्काराब्रह्माव्यापाराणामन्यतमस्मात् निवर्त्तनं पौषधतयाऽभिमतं, नियमकर्तव्यता चास्याष्टम्यादिषु प्रोक्ता, एतावन्मात्रेण यदि निषेधोऽपर्वसु तर्हि अपर्वाणि उपवासब्रह्मचर्यादिकरणमपि तेषामविधिपथपतितं स्यात्, किंच-टीकाकृदुक्त्या श्रीधर्मदासगणिवाक्येन च खरात्मजपक्षे अपर्वाणि जिनपूजादिविशेषोद्यमोऽपि निषेधपदवीमेव यायात् तन्नासौ रुचिरः पन्थाः खराणामिति यथास्थमालोच्यैव वर्तितव्यं धीधनैः । प्रमाणं चास्याः 'अनुष्ठभां सहस्राणि नव पञ्च शतानि चेति प्रान्त्यवाक्येन स्पष्टमेव । मोक्षमार्गश्रयणसाधितश्रेयस्काः साधवो यथावद्विज्ञायैतत्प्रकरणोक्तं मिथ्यात्वादिसंलेखनान्तं पदार्थपञ्चदशकं संयमेऽक्षमेभ्योऽपि श्रावकेभ्य उपदिशन्तु, श्राद्धाश्चैतत् श्रुत्वा वाचयित्वा वाऽवधार्य च यथावदतिष्ठन्तु साधु साधुधर्माभिषक्तचित्ता इत्यर्थयन्ते आनन्दसागराः वेदाष्टनन्दाब्जमितेष्वतीतेष्वब्देषु भूपोत्तमविक्रमार्कात् । शुचौ नवम्यां बहुले गुरौ चानन्दोऽमुमाख्यद् भविबुद्धिवृद्धयै ।।१।। काश्मीरजेशालयमूर्षि नग्नान्, विजित्य विघ्नौघविधानदक्षान् । सत्पंचमीशुक्रदिने विशाखे, दण्डक्रियां शुद्धमना विधाय ।।२॥ श्रीमेदपाटेशनिदेशपुष्टः स्थितः पुरे श्रीउदयात्पुराख्ये । मोक्षाध्वलीनान् श्रुतवाक्यपीनान्, श्राद्धान् समाश्रित्य हितं दधानः ।।३।। व्यधत्त वृत्तौ रुचिरं पदानां, प्रबन्धमुग्रं तु परं नवानाम् । विचक्षणाः सत्तिपरा भवन्तु, प्रसन्नता सर्वगुणावहा यत् ।।४। त्रिभिर्विशेषकं उदयपुर संवत् १९८४ (गुजराती सं. १९८३) आषाढकृष्णनवम्याम् आनन्दसागराः अत्र २३५-२८७ पत्रयोः दक्षिणस्यां द्वारिकायाः पाण्डमथुरायाश्च मध्ये कौशाबीकवनमुल्लिखितं श्यते, तच्चेदार्यक्षेत्रस्य सीमविधायकतया दक्षिणस्यामभ्युपगम्येत न स्यादेवार्यानाविषयविषयको विवादो यः प्रागुत्थितः, स्यादेव चैवं सति कलिङ्गकोंकणकपर्यन्तानां श्रीसंप्रतिकालादपि प्रागेवायविषयता, परतश्चावस्थितानां हुडुकमहाराष्ट्रान्धद्रविडादीनां च प्रागनार्याणामपि श्रीसंप्रतिनृपकारितार्यता, श्रीनिशीथचूादिष्वप्येतेषामेवार्यता-करणमाख्यायीति शं सर्वेषामस्तु । in K erala For Personat Private Use Only

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 334