Book Title: Mulachar Satik Part 02 Author(s): Pannalal Soni, Gajadharlal Shastri Publisher: Manikchandra Digambar Jain Granthmala Samiti View full book textPage 9
________________ मूलाचारे wwwmmmmmmmmmm~~~~~~~~~ टीका-अश्वगजरथनरबलवाहनानि मंत्रौषधानि च विद्याश्च प्रज्ञप्त्यादयो मृत्युभयाद्युपस्थितान्न शरणं न त्राणं न रक्षा, निकृतिर्वचना, नीतिश्चाणक्यविद्या “ स्वपक्षपरपक्षवृद्धिहानिप्रतिपादनोपायो नीतिः" । सा च सामोपप्रदानभेददंडरूपा । तत्र प्रियहितवचनमंग स्वाजन्यं च साम, नानाद्रव्यप्रदानमुपप्रदानं, त्रासनभर्त्सनादिर्भेदः, ताडनं छेदनं दंडः, निजा बांधवा भ्रात्रादयश्चैवमादीनि मृत्युभये सत्युपस्थिते शरणं न भवंतीति चिन्तनीयमिति ॥ ५॥ तथा;जम्मजरामरणसमाहिदह्मि सरणं ण विज्जदे लोए । जरमरणमहारिउवारणं तु जिणसासणं मुच्चा ॥ ६ ॥ जन्मजरामरणसमाहिते शरणं न विद्यते लोके। जरामरणमहारिपुवारणं तु जिनशासनं मुक्त्वा ॥६॥ टीका-जन्मोत्पत्तिः, जरा वृद्धत्वं, मरणं मृत्युः, एतैः समाहिते संयुक्ते सुष्ठु संकलिते शरणं रक्षा न विद्यते लोकेऽस्मिञ्जगति, जरामरणमहारिपुवारणं, जिनशासनं मुक्त्वाऽन्यच्छरणं न विद्यते लोके इति संबंधः ॥ ६ ॥ तथा;मरणभयसि उवगदे देवा वि सइंदया ण तारंति । धम्मो ताणं सरणं गदित्ति चिंतहि सरणतं ॥ ७ ॥ मरणभये उपगते देवा अपि सेंद्रा न तारयति । धर्मस्त्राणं शरणं गतिरिति चिंतयाशरणत्वं ॥ ७ ॥ टीका-मरणभय उपगत उपस्थिते देवा अपि सेन्द्रा देवेन्द्रसहिताः सुरासुराः न तारयन्ति न त्रायन्ते तस्माद्धर्मो जिनवराख्यातस्त्राणं रक्षणं शरणमाश्रयो गतिश्चेति भावय चिंतयाशरणत्वं, यस्मान्न कश्चिदन्य आश्रयः, धर्मो पुनः शरणं रक्षकोऽगतिकानां गतिरिति कृत्वा धर्म शरणं जानीहीति ॥ ७ ॥Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 338