Book Title: Mulachar Satik Part 02
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti
View full book text ________________
द्वादशानुप्रेक्षाधिकारः ।
८
टीका – मिथ्यात्वेनाछन्नोऽश्रद्धानतमसा समंतादावृतः मार्गः सम्यग्दर्शनज्ञानचारित्राणि ' तं जिनदर्शितं जिनेन प्रतिपादितमपश्यन् अज्ञानाद्भ्रमत्ययं जीवः, संसारकान्तारे संसाराटव्यां, भीमे भयानके, कुटिलेऽतीवगहने मोहवल्यादिनिबद्ध इति ॥ १३ ॥
७
चतुर्विधं संसारस्वरूपमाह; -
दब्वे खेत्ते काले भावे य चदुब्बिहो य संसारो । चदुगदिगमणणिबद्धो बहुप्ययारेहिं णादन्वो ॥ १४ ॥ द्रव्यं क्षेत्रं कालः भावश्च चतुर्विधश्च संसारः । चतुर्गतिगमननिबद्धः बहुप्रकारैः ज्ञातव्यः ॥ १४ ॥
टीका–संसरणं संसारः परिवर्तनं तच्चतुर्विधं द्रव्यपरिवर्तनं क्षेत्रपरिवर्तनं कालपरिवर्त्तनं भावपरिवर्तनं, भवपरिवर्त्तनं चात्रैव दृष्टव्यमन्यत्र पंचविधस्योपदेशादिति । तत्र द्रव्यपरिवर्त्तनं द्विविधं नोकर्मपरिवर्त्तनं कर्मपरिवर्त्तनं चेति । तत्र नोकर्मपरिवर्त्तनं नाम त्रयाणां शरीराणां षण्णां पर्याप्तीनां योग्या ये पुद्गला एकेन जीवेनैकस्मिन् समये गृहीताः स्निग्धरूक्षवर्णगंधादिभिन्नास्तत्रिमन्दमध्यभावेन च यथावस्थिता द्वितीयादिषु समयेषु निर्जीर्णास्ततो गृहीतानंतवारानतीत्य मिश्रकाँश्चानंतवारान्प्रगृह्य मध्ये गृहीताँश्चानंतवारान् समतीत्य तेनैव प्रकारेण तस्यैव जीवस्य नोकर्मभावमापयन्ते यावत्तावत्समुदितं नोकर्मद्रव्यपरिवर्तनमिति । कर्मद्रव्यपरिवर्त्तनंमुच्यते - एकस्मिन् समये जीवेनैकेनाष्टविधकर्मभावेन ये पुद्गला गृहीताः समयाधिकामावलिकामतीत्य द्वितीयादिषु समयेषु निर्जीर्णास्ततो गृहीतानगृहीतान्मिश्रानंतवारानतीत्य त एव कर्मस्कन्धास्तेनैव विधिना तस्य जीवस्य कर्मभावमापद्यन्ते यावत्तावत्कर्मद्रव्यपरिवर्त्तनमिति । क्षेत्रपरिवर्तनमुच्यते - सूक्ष्मनिगोत जीवोऽपर्याप्तकः सर्वजघन्यप्रदेशशरीरो लोकस्याष्टमध्यप्रदेशान् स्वशरीरमध्यप्रदेशान् कृत्वोत्पन्नः क्षुद्रभवग्रहणं जीवित्वा मृतः स एव पुनस्तेनैवावगाहन द्विरुत्पन्नस्तथा त्रिस्तथा चतुरित्येवं यावदंगुलस्य
Loading... Page Navigation 1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 338