Book Title: Mulachar Satik Part 02
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti
View full book text ________________
दादशानुप्रेक्षाधिकारः।
एकत्वस्वरूपमाह;सयणस्स परियणस्स य मज्झे एक्को रुवंतओ दुहिदो। वजदि मच्चुवसगदो ण जणो कोई समं एदि ॥ ८॥
स्वजनस्य परिजनस्य च मध्ये एकः रुजातः दुःखितः। व्रजति मृत्युवशगतः न जनः कश्चिदपि समं पति ॥ ८॥ टीका-स्वजनस्य भ्रातृव्यपितृव्यादिकस्य, परिजनस्य दासमित्रादिकस्य च मध्ये, एकोसहायः, रुजार्तो व्याधिग्रस्तो दुःखितः व्रजति मृत्युवशंगतो न जनः कश्चित् तेन सममेति गच्छति ॥ ८॥
तथा;एक्को करेइ कम्मं एक्को हिंडदि य दीहसंसारे। एक्को जायदि मरदि य एवं चिंतेहि एयत्तं ॥९॥
एकः करोति कर्म एकः हिंडते च दीर्घसंसारे। एक: जायते म्रियते च एवं चिंतय एकत्वं ॥ ९ ॥ टीका-एकः करोति शुभाशुभं कर्म, एक एव च हिण्डते भ्रमति दीर्घसंसारे, एको जायते, एकश्च म्रियते, एवं चिन्तय भावयैकत्वमिति ॥ ९॥
अन्यत्वस्वरूपमाह;मादुपिदुसयणसंबंधिणो य सव्वे वि अत्तणो अण्णे । इह लोग बंधवा ते ण य परलोगं समं णेति ॥ १० ॥
मातृपितृस्वजनसंबंधिनश्च सर्वेपि आत्मनः अन्ये। इह लोके बांधवास्ते न च परलोकं समं यन्ति ॥ १० ॥ टीका–मातृपितृस्वजनसंबंधिनः सर्वेऽपि आत्मनोऽन्ये पृथग्भूता इह
Loading... Page Navigation 1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 338