Book Title: Mulachar Satik Part 02
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 7
________________ मूलाचारे प्रतिज्ञावाक्येन सूचितानुप्रेक्षानामान्याह;अद्धवमसरणमेगत्तमण्णसंसारलोगमसुचित्तं । आसवसंवरणिज्जरधम्मं बोधिं च चिंतेज्जो ॥२॥ अधुवमशरणमेकत्वं अन्यत्संसारलोकं अशुभत्वं । आस्रवसंवरनिर्जराधर्म बोधिं च चिंतयेत् ॥ २॥ टीका-अध्रुवमनित्यमशाश्वतं । अशरणमत्राणं । एकत्वमसहायत्वं द्वितीयस्याभावो न मे द्वितीयः । अन्यत्वं पृथक्त्वं शरीरादप्यन्योऽहमिति भावनं । संसारश्चतुर्गतिपरिभ्रमणं प्रदेशानामुद्वर्तनं परिवर्तन च । लोकं वेत्रासनझल्लरीमृदंगसंस्थानं । अशुभत्वमशुचित्वं सर्वदुःखस्वरूपं । आस्रवं कर्मागमद्वारं मिथ्यात्वादिकं । संवरं कर्मागमद्वारनिरोधनं सम्यक्त्त्वादिकं । निर्जरां कर्मनिर्गमनं । धर्ममुत्तमक्षमादिलक्षणं । बोधिं सम्यक्त्वादिलाभं चान्तकाले संन्यासेन प्राणत्यागं चिन्तयेत् । एवंप्रकारा द्वादशानुप्रेक्षा ध्यायेदिति ॥ २॥ ___ तासु मध्ये तावदनित्यताभेदमाह;ठाणाणि आसणाणि य देवासुरमणुयइड्डिसोक्खाई । मादुपिदुसयणसंवासदा य पीदी वि य अणिचा ॥ ३ ॥ स्थानानि आसनानि च देवासुरमनुजर्द्धिसौख्यानि । मातृपितृस्वजनसंवासता च प्रीतिरपि च अनित्यानि ॥३॥ टीका-स्थानानि ग्रामनगरपत्तनदेशपर्वतनदीमटवादीनि, अथवा देवेन्द्रचक्रधरबलदेवस्थानानि, अथवेक्ष्वाकुहरिवंशादिस्थानानि, तिष्ठति सुखेन जीवा येषु तानि स्थानानि । आसन्ते सुखेन विशन्ति येषु तान्यासनानि राज्याङ्गानि सिंहासनादीनि, अथवा अशनानि नानाप्रकारभोजनानि उत्तरत्राशनशब्देन चाशनादीनां ग्रहणात्, देवाश्चासुराश्च मनुष्याश्च देवासुरमनुष्यास्तेषां १ 'चेशशनादीनां ' इति पाठः प्रेस-पुस्तके ।

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 338