Book Title: Mandan Granth Sangraha Part 01
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah

View full book text
Previous | Next

Page 10
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (७ ) श्रीरागपूर्वप्रथितातिरागोल्लसन्मतैः सेव्यते एष एभिः ॥५९॥ कैवारदक्षा विरदप्रसन्ना देशान्तरमाप्तसुभूतिमानाः । ब्रह्माद्यपूर्वचनैः सुहृष्टाः सन्मागधास्तं सततं स्तुवन्ति ॥६०॥ इति रुचिरवचोभिः सादरं स्तूयमानः प्रतिदिनमतिदेवारख्यातितो भूभुजेषु । . वितरति बहुधा यन्मण्डनो हृष्टचेताः तदखिलमिदमग्रे वर्ण्यते सन्मयैतत् ॥ ६१॥ इतिश्रीकाव्यमनोहरे महाकाव्ये महेश्वरकृतौ श्रीमण्डनजन्मा दिगुणवर्णनो नाम प्रथमः सर्गः ॥ अथोच्यते याचकपुङ्गवेभ्यो विहायित यद्वितरिष्यतेऽसौ । भुवं ददाति प्रथमं षडङ्गविद्भयः कषायांशुकभूषितेभ्यः ।।१।। ये कुण्डले रत्नमणिप्रसन्नमुक्ताफलादीपितकेशपाशे । अनेन दत्ते श्रुतिपारगेभ्यः ताभ्यां नृपायन्त्यतिविस्मयं हि ॥२॥ चामीकरालकृतपुष्परागे ददात्यसौ दोष्कटके कविभ्यः । शुभाङ्गुलीभूषणमन्यदेव दशावधानातिकुतूहलेभ्यः ॥३॥ सदोचितज्ञः शकुनप्रहृष्टः सांवत्सरेभ्यो वितरत्यसौ तु । दुकुलयुग्मानि सकाञ्चनानि दृष्ट्वा जना विस्मयमाशु याताः॥४॥ असौ सदा यच्छति सद्भिपरभ्यो वित्तं च पत्तोर्णसुकञ्चकानि । महौषधध्वस्तगदव्रजेभ्यस्तूर्णप्रचूर्णारचिनाशकेभ्यः ॥ ५॥ साहित्यविद्भ्यः प्रथितानि दत्ते मञ्जिष्ठवासांसि गभिरचेताः । कलावतां कल्पितदायकोऽसौ श्रीमण्डनः सर्वदिगन्तकीर्तिः ॥६॥ सङ्गीतशास्त्रमखरेभ्य एभ्यो मुक्तावलीकाश्चनतोडरांश्च । तद्गीतसंगीतमना ददाति विज्ञानपूर्णः श्रुतपारगामी ॥ ७ ॥ राजन्यसंसद्बहुकीर्तिकृद्भ्यः सुरङ्गचामीकरचामराणि । यच्छत्यसौ सन्ततकीर्तिकामः सेवापराणां प्रथमं ददानः ॥८॥ त्यागोदयं यस्य विलोक्य याता वैदेशिका दैन्यतमोऽपहन्तुम् । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 175