Book Title: Mahabal Malaysundari Charitra
Author(s): Jaytilaksuri
Publisher: Vithalji Hiralal Lalan

View full book text
Previous | Next

Page 5
________________ मलय ॥५॥ 18008060010080646581 अथान्यदा तयोर्हा - सीनयोरागतः पुमान् । एको भद्राकृतिस्तत्र भ्रमन्न दृष्टपूर्वकः ॥ ३८ ॥ आकारादिगुणैर्ज्ञात्वा तस्य सश्रीकतां तदा । ताभ्यामासनदानादि - प्रतिपत्तिर्विनिर्ममे ॥ ३९ ॥ तत्रैव तिष्टता तेन विश्वस्तेनैकदा तयोः । अभाणि तुंबमेतन्मे रक्षतं कतिवासरान् ॥ ४० ॥ ताभ्यामादाय हट्टांत — रुद्वध्ध्यामोचि तुंबकं । गोलं गोलं निपेतुश्च ततोऽस्माद्रसबिंदवः ॥ ४१ ॥ अधःस्था आयसी तैस्तु दृष्टा हैमीकृता कुशी । लोभांधाभ्यामगोप्याभ्यां तत्तुंबं रससंयुतं ॥ ४२ ॥ कतिचिद्दिनपर्यंते याचमाने तु तन्नरे । तौ द्वौ मायाविनौ मृव्या श्रेष्टिनावूचतुर्गिरा ॥ ४३ ॥ मूषकैर्जग्धबंधं ते पतित्वाभाजि तुंबकं । खंडान्येवात्र दृष्टान्या - वाभ्यां सत्पुरुषाणि ॥४४॥ तुंबांतरस्य खंडानि दर्शितान्युपलक्ष्य सः । दक्षोऽज्ञासीदिमान्यन्य —- तुंबस्य शकलानि वै ॥ ४५ ॥ ज्ञात्वा तुंबे रसं लोभं गतावेतौ मृषोत्तरैः । संगोप्य तुंबकं मां हि विप्रतारयतोऽधुना ॥ ४६ ॥ तत्कथयामि राज्ञश्चे - द्रसं गृह्णाति सोऽप्यमुं । वैदेशिकस्य मे हाहा द्विधाप्येषोऽद्य वै गतः ॥ ४७ ॥ ध्यावे श्रेष्टिना तेन तावूचाते उभावपि । भो ममार्पयतं तुंबं माका कपटोत्तरं ॥ ४८ ॥ युवयोर्युज्यते 16886868866 चरित्रं ॥५॥

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 224