Book Title: Madhyam vrutti vachuribhyamlankrut Siddhahemshabdanushasan Part 01
Author(s): Kshamabhadrasuri, Ratnajyotvijay
Publisher: Ranjanvijayji Jain Pustakalay

Previous | Next

Page 9
________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलङ्कृते इति टास्थाने इन, 'अवर्णस्येवर्णा०' (1 / 2 / 6) इति ए, 'रघुवर्णान्नो ण एकपदे०' (2 / 3 / 63) इत्यादिना नस्य णः आचार्यहेमचन्द्रेण / ‘स्मृ आध्याने' स्मृ स्मरणं पूर्वम् 'प्राक्काले' क्त्वा स्मृत्वा / 'टुक्षुरुकुंक् शब्दे' कुः / कौतीति किम् ‘कोर्डिम्' (939) / 'चिंग्ट् चयने' चि / किम्पूर्वम् / किमप्यल्पं चिनोति क्विप् ‘ह्रस्वस्य तः पित्कृति' (4 / 4 / 113) इति तोऽन्तः, ‘अप्रयोगीत्' (1 / 1 / 37) इति विप्लोपः 'तौ मु०' इति किञ्चित् / किश्चिदिति क्रियाविशेषणमतो द्वितीयाऽम्, अनतो लुप्' (1 / 4 / 59) इति अम् लुप्यते / अथवा 'किमः सर्वविभक्त्यन्तात् चित् चनौ' इति किञ्चित् इति सिद्धम् / किञ्चिदित्यखण्डमव्ययं वा तदा प्रथमासिः, 'अव्ययस्य' (3 / 27) इति लुप् / 'काशृङ् दीप्तौ' / प्रः पूर्वम् / प्रकाश्यते शब्दानुशासनं कर्तृ, तत्प्रकाशमानं शब्दानुशासनमाचार्यहेमचन्द्रेण प्रयुज्यते 'प्रयोक्तृव्यापारे णिग्' (3 / 4 / 20) इति णिग्, अप्रयोगीत् इः / वर्तमानाते। 'क्यः शिति' (3 / 4 / 70) इति क्यः ‘णेरनिटि' (4 / 3 / 83) इति णिगो लुप् प्रकाश्यते / अथ श्लोकार्थ उच्यते / परमात्मानं श्रीअर्हन्तं प्रणम्य शब्दानुशासनं व्याकरणं श्रेयः प्रशस्यं प्रधानं शिवहेतुत्वाद्वा श्रेयः / यतः, 'व्याकरणात् पदसिद्धिः पदसिद्धेरर्थनिश्चयो भवति / अर्थात्तत्त्वज्ञानं तत्त्वज्ञानात्परं श्रेयः // 1 // ' ईदृशं शब्दानुशासनं आचार्यहेमचन्द्रेण किञ्चित् पाणिन्यादिकमुपयुज्य अथवा 'किञ्चिद् गुर्वाम्नाय-तत्त्वं ध्यात्वा किश्चित् अल्पं वा प्रकाश्यते शिष्याणां प्रदर्श्यते इति भावः // 1 // अर्ह // 11 // 1 // अहमित्येतदक्षरं परमेश्वरस्य परमेष्ठिनो वाचकं मङ्गलाऽर्थ शास्त्रस्यादौ प्रणिदध्महे [ध्यायामः]॥१॥ अ० 'अर्ह मह पूजायाम्' / अर्ह / अर्हति अष्टप्रातिहार्यपूजामित्यहँ / 'अः' (2) इत्युणादिसूत्रेण अं। 'पृषोदरादयः' (3 / 2 / 155) इति सानुनासिकत्वं कलाबिन्दुः ? / अथवा अर्हमिति मान्तोऽप्यस्ति अव्ययम् / सिः, 'अव्ययस्य' (3 / 2 / 7) इति लुप् / अहँ इति अक्षरं पदं परमेश्वरस्य जगन्नाथस्य एकस्यैव परमेष्ठिनोऽर्हद्भगवतो वाचकम् / अहँकारेण अर्हनैव ध्यायते इति भावः // 1 // सिद्धिः स्याद्वादात् // 11 // 2 // स्याद्वादादऽनेकान्तवादात् प्रकृतानां शब्दानां सिद्धिनिःपत्ति प्तिश्च [परिज्ञानं वा] वेदितव्या॥२॥ ___ अ० 'षिधू गत्यां' षिध् / 'षः सोऽष्टयैष्ठिवष्वष्कः' (2 / 3 / 98) इति सिध् / सेधनं सिद्धिः, 'स्त्रियां क्तिः' (5 / 3 / 91) 'अप्रयोगीत्' (1 / 1 / 37) ति, 'अधश्चतुर्थात्तथोर्धः' (2 / 1 / 79) इति तकारस्य धः / तृतीयस्तृतीय०' (1 / 3 / 49) इति धस्य दः सिद्धिः / स्यात् इति विभक्त्यन्तप्रतिरूपकमव्ययं अनेकान्तमार्गद्योतकं ज्ञेयम्। 'वद व्यक्तायां वाचि' वदनं वादः ‘भावाकोंः ' (5 / 3 / 18), घञ् ‘ञ्णिति' (4 / 3 / 50) वृद्धिः / स्यात् इत्येतस्य वादः स्याद्वादोऽनेकान्तवादः / तस्मात् / प्रकृतानां प्रस्तुतानां व्यावहारिकशब्दानाम् // 2 // लोकात् // 11 // 3 // __ अनुक्तानां संज्ञानां न्यायानां च लोकाद्वैयाकरणादेः सिद्धिर्निष्पत्ति प्तिश्च वेदितव्या / वर्णसमाम्नायस्य च // 3 // तत्र - ___ अ० 'लोकङ् दर्शने' / लोक् / लोक्यते तत्त्वनिश्चयायेति लोकः घञ् / अनुक्तानामिति क्रियागुणद्रव्यजातिकाललिङ्गस्वाङ्गसङ्ख्यावीप्सालगादीनां संज्ञानां, न्यायानां परान्नित्यं नित्यादन्तरङ्गादीनां च / ज्ञप्तिः परिज्ञानं। वर्ण

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 310