Book Title: Madhyam vrutti vachuribhyamlankrut Siddhahemshabdanushasan Part 01
Author(s): Kshamabhadrasuri, Ratnajyotvijay
Publisher: Ranjanvijayji Jain Pustakalay

Previous | Next

Page 13
________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलङ्कृते . प्रयत्नः आस्यप्रयत्नः / आत्मन आन्तरः संरम्भः / स च चतुर्धा भवति- स्पृष्टता ईषत्स्पृष्टता विवृतता ईषद्विवृतता। तत्र स्पृश्यन्ते स्म स्पृष्टा वर्णाः तेषां भावः स्पृष्टता / वर्णानां प्रवृत्तिनिमित्तं स्पृष्टताहेतुत्वात्प्रयत्नोऽपि स्पृष्टता उच्यते / करणं तु आत्मव्यापारः प्रयत्न इत्यर्थः / करणं च वर्णोत्पत्तिकाले कण्ठादिस्थानकानां आस्यप्रयत्नः च सहकारिकारणं जिह्वामूलमध्याग्रोपाग्ररूपं प्रोच्यते / अथास्यप्रयत्नः स्पृष्टताकरणम् / आस्यप्रयत्नः ईषत्स्पृष्टताकरणम्। आस्य० विवृतताकरणम् / आस्य० ईषद्विवृतताकरणम् / अथ वर्णानां किं 2 स्थानकं किं 2 स्पृष्टतादिकरणम् ? तदाह- अवर्णकवर्गहविसर्जनीयाः कण्ठ्याः / इवर्णचवर्गयशास्तालव्याः / उवर्णपवर्गोपध्मानीया ओष्ठ्याः / ऋवर्णटवर्गरषा मूर्धन्याः / लुवर्णतवर्गलसा दन्त्याः / ए ऐ कण्ठतालव्यौ / ओ औ कण्ठोष्ठया / वो दन्तोष्ठयः / अवर्णः सर्वमुखस्थानमित्येके / नासिक्योऽनुस्वारः / ङअणनमाः स्वस्थाननासिकास्थानाः इति / अ आ इ ई उ ऊ ऋ ऋ ल लू इत्येतेषां स्वराणां विवृतं नाम करणम् / वर्गाणां स्पृष्टं नाम करणम् / अन्तस्थानां ईषत्स्पृष्टं करणम् / शषसहानामीषद्विवृतं करणम् / तत्र अवर्णस्याष्टादशभेदाः परस्परं स्वसंज्ञा भवन्ति / एवमिवर्णादयोऽपि मिथः स्वाः / तथा एकारऐकारौ मिथो न स्वौ / ओकारऔकारावपि मिथो न स्वौ / एकारओकारयोर्विवृततरं करणम् / ऐकारऔकारयोरतिविवृततरं करणम् / इति प्रयत्नकृतभेदः / अतोऽमी सन्ध्यक्षरा भिन्नस्थानभिन्नास्यप्रयत्नत्वात् परस्परं स्वा न भवन्ति / / इति स्वसंज्ञाप्रकारो ज्ञातव्यः // 17 // स्यौजसमौशस्टाभ्यांभिस्ङेभ्यांभ्यस्ङसिभ्यांभ्यस्ङसोसाम्ङ्योस्सुपां त्रयी त्रयी प्रथमादिः // 1 // 1 // 18 // स्यादीनां प्रत्ययानां त्रयी त्रयी यथासङ्ख्यं प्रथमाद्वितीयातृतीयाचतुर्थीपञ्चमीषष्ठीसप्तमीसंज्ञा भवन्ति // 18 // अ० त्रि / त्रयोऽवयवा यस्याः सा त्रयी / 'द्वित्रिभ्यामयड् वा' (7 / 1 / 152) इति अयट् / 'अण्ञ येत्यादि' (2 / 4 / 20) डीः / 'अस्य ड्या लुक्' (2 / 4 / 86) इति अलोपः / सिः, 'दीर्घड्या०' इति लुप् 'वीप्सायाम्' (7 / 4 / 80) इत्यनेन द्वित्वं त्रयी त्रयी। 'रोदोऽर्चिषी दामगुणे त्वयट तयट्' स्त्रीपुं० इति लिङ्गानुशासने स्त्रीक्लीबत्वम् / सि औ जस् इत्यादि त्रिकत्रिकवचनं प्रथमाविभक्तिः / एवं द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी विभक्तयो ज्ञातव्याः (स्यादीनां इजशटङपा इत्यनुबन्धाः ‘सौ नवेतौ' (1 / 2 / 38) इत्यादौ विशेषणार्था ज्ञातव्याः) // 18 // स्त्यादिविभक्तिः // 11 // 19 // स इति तीति च उत्सृष्टानुबन्धस्य सेस्तिवश्च ग्रहणम् / स्यादयस्तिवादयश्च सुपस्यामहिपर्यन्ता विभक्तयः स्युः // 19 // ___ अ० स् च तिश्च स्ति स्ति आदिर्यस्याः सा स्त्यादिः / विभज्यन्ते प्रकटीक्रियन्ते कर्तृकर्मादयोऽर्था अनया 'श्वादिभ्यः' (5 / 3 / 92) इति क्तिः / / 19 / / तंदन्तं पदम् ॥११॥२०॥[पदसंज्ञाधिकारे सूत्र 6 / तत्र त्रीणि विधिविषयाणि त्रीणि प्रतिषेधकानि] स्याद्यन्तं त्याद्यन्तं च पदसंज्ञं स्यात् / धर्मो वः स्वं ददाति नः शास्त्रम् // 20 // अ० सा विभक्तिरन्ते यस्य तत् तदन्तम् / 'पदिच् गतौ' पद्यते गम्यते कारकसंसृष्टोऽर्थोऽनेनेति पदम् / 'वर्षादयः क्लीबे' (5 / 3 / 29) इति सूत्रेण अल् / सिः / अतः स्यमोऽम्' (1 / 4 / 57) 'समानादमोतः' (1 / 4 / 46)

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 310