Book Title: Madhyam vrutti vachuribhyamlankrut Siddhahemshabdanushasan Part 01 Author(s): Kshamabhadrasuri, Ratnajyotvijay Publisher: Ranjanvijayji Jain PustakalayPage 17
________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलते एवमित्यादयः [अव्ययत्वात् सर्वत्र अव्ययस्य (3 / 2 / 7) इति सेर्लोपः] // 31 // अ० च शब्द आदिर्येषां ते / सीदतस्तिष्ठतोऽस्मिँल्लिङ्गसङ्खये इति सत्त्वं लिङ्गसङ्ख्यावद्र्व्यं गोत्वादिः; इदं . तदित्यादि सर्वनामव्यपदेश्यं विशेष्यमिति यावत्, ततोऽन्यत् असत्त्वम् / असत्त्वे वर्तमानाश्चादयोऽव्ययसंज्ञा भवन्ति / निपाता इति च पूर्वेषां संज्ञा यथा 'चादयो ऽसत्त्वे निपाताः' / असत्त्वे इति किम् ? यत्र सत्त्वरूपेऽनुकार्यादावर्थे एषां चादीनां प्रवृत्तिस्तत्र माभूदव्ययत्वं यथा चः समुच्चये / एवोऽवधारणे / तुः पुनरर्थे / उपमायां इवः / इत्यादिः // 31 // अधण्तस्वाद्याशसः // 1 // 1 // 32 // धण्वर्जितास्तस्वादयः शस्पर्यन्ता ये प्रत्ययास्तदन्तं शब्दरूपमऽव्ययं स्यात् / देवा अर्जुनतोऽभवन् / ततः / तत्र / बहुशः / अधणिति किम् ? पथि द्वैधानि / संशयत्रैधानि // 32 // अ० न धण् अधण् / 'नञत्' (3 / 2 / 125) / तसुरादिर्येषां ते तस्वादयः / शस् आऽभिविधिर्येषां ते आशसः। अधण् च तस्वादयश्च आशसश्च / जस् / अर्जुनस्य पक्षे अर्जुनतः 'व्याश्रये तसुः' (7 / 2 / 81) इति तस् / तस्मात्ततः 'किमद्व्यादिसर्वाद्यवैपुल्यबहोः पित्तस्' (7 / 2 / 89) इति तस् / तस्मिन् तत्र ‘सप्तम्याः' (7 / 2 / 94) इति त्रप् / ततस्तत्रेत्यत्र ‘आदेरः' (2 / 1 / 41) इति दस्य अकारः / 'लुगस्यादेत्यऽपदे' (2 / 1 / 213) इति पूर्वोऽकारो लुप्यते / बहुं 2 देहि ‘बह्वल्पार्थात्कारकादिष्टानिष्टे प्रशस्' (7 / 2 / 150) इति शस् / द्वौ प्रकारौ त्रयः प्रकारा एषां 'तद्वति धण्' (7 / 2 / 108) इति धण् / 'वृद्धिर्यस्य स्वरेष्वादेः' (6 / 1 / 8) इति वृद्धिः / पथा संशयेन करणभूतेन द्वैधानि त्रैधानि / जस् // 32 // विभक्तिथमन्ततसाद्याभाः // 11 // 33 // , विभक्त्यन्ताभास्थमऽवसानतसादिप्रत्ययान्ताभाश्च शब्दा अव्ययसंज्ञाः स्युः / अहंयुः / शुभंयुः। अस्तिक्षीरा गौः / कुतः / कथम् // 33 // __ अ० थम् अन्ते येषां ते / तस् आदिर्येषां ते / विभक्तयश्च थमन्ताश्च तसादयश्च वि० / विभक्तिथमन्ततसादीनामाभा सादृश्यं येषां शब्दानां ते विभक्तिथमन्ततसाद्याभाः शब्दाः / अहं विद्यतेऽस्य शुभं विद्यतेऽस्य 'ऊर्णाहंशुभमो युस्' (7 / 2 / 17) इति युस् अहंयुः शुभंयुः / अस्ति विद्यमानं क्षीरं यस्याम् / कस्मात् ‘किमद्वया०' (7 / 2 / 89) इति तस् / केन प्रकारेण कथम् ‘कथमित्थम्' (7 / 2 / 103) निपातः / अहं शुभं कृतं पर्याप्तम्, येन तेन चिरेण अन्तरेण, ते मे चिराय अह्राय, चिरात् अकस्मात्, चिरस्य अन्योऽन्यस्य, एकपदे अग्रे प्रगे प्राह्ने हेतौ, इत्यादि स्यादिविभक्त्यन्ताभाः / / अस्ति, नास्ति, असि, अस्मि, विद्यते, भवति, एहि, मन्ये, शङ्के, अस्तु, भवतु, स्यात्, पूर्यते, आह, वर्त्तते, न वर्त्तते, पश्य, पश्यतेत्यादि त्यादिविभक्त्यन्ताभाः शब्दा ज्ञेयाः // 33 // वत्तस्याम् // 1 // 1 // 34 // वत् तसि आम् प्रत्ययान्तः शब्दोऽव्ययं स्यात् / मुनिवद् वृत्तम् / क्षत्रियवत् / उरस्तः / उच्चैस्तराम्। उच्चैस्तमाम् // 34 // अ० तद्धितवत्तसिसाहचर्यात् 'किंत्याद्य०' (7 / 3 / 8) इति तद्धितकृतस्यामो ग्रहणम् / मुनेरहँ मुनिवत् 'तस्यार्हे क्रियायां वत्' (7 / 1 / 51) इति वत् / क्षत्रिया इव ‘स्यादेरिवे' (7 / 1 / 52) इति वत् / उरसा एकदिग् 'यश्चोरसः'Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 310