________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलते एवमित्यादयः [अव्ययत्वात् सर्वत्र अव्ययस्य (3 / 2 / 7) इति सेर्लोपः] // 31 // अ० च शब्द आदिर्येषां ते / सीदतस्तिष्ठतोऽस्मिँल्लिङ्गसङ्खये इति सत्त्वं लिङ्गसङ्ख्यावद्र्व्यं गोत्वादिः; इदं . तदित्यादि सर्वनामव्यपदेश्यं विशेष्यमिति यावत्, ततोऽन्यत् असत्त्वम् / असत्त्वे वर्तमानाश्चादयोऽव्ययसंज्ञा भवन्ति / निपाता इति च पूर्वेषां संज्ञा यथा 'चादयो ऽसत्त्वे निपाताः' / असत्त्वे इति किम् ? यत्र सत्त्वरूपेऽनुकार्यादावर्थे एषां चादीनां प्रवृत्तिस्तत्र माभूदव्ययत्वं यथा चः समुच्चये / एवोऽवधारणे / तुः पुनरर्थे / उपमायां इवः / इत्यादिः // 31 // अधण्तस्वाद्याशसः // 1 // 1 // 32 // धण्वर्जितास्तस्वादयः शस्पर्यन्ता ये प्रत्ययास्तदन्तं शब्दरूपमऽव्ययं स्यात् / देवा अर्जुनतोऽभवन् / ततः / तत्र / बहुशः / अधणिति किम् ? पथि द्वैधानि / संशयत्रैधानि // 32 // अ० न धण् अधण् / 'नञत्' (3 / 2 / 125) / तसुरादिर्येषां ते तस्वादयः / शस् आऽभिविधिर्येषां ते आशसः। अधण् च तस्वादयश्च आशसश्च / जस् / अर्जुनस्य पक्षे अर्जुनतः 'व्याश्रये तसुः' (7 / 2 / 81) इति तस् / तस्मात्ततः 'किमद्व्यादिसर्वाद्यवैपुल्यबहोः पित्तस्' (7 / 2 / 89) इति तस् / तस्मिन् तत्र ‘सप्तम्याः' (7 / 2 / 94) इति त्रप् / ततस्तत्रेत्यत्र ‘आदेरः' (2 / 1 / 41) इति दस्य अकारः / 'लुगस्यादेत्यऽपदे' (2 / 1 / 213) इति पूर्वोऽकारो लुप्यते / बहुं 2 देहि ‘बह्वल्पार्थात्कारकादिष्टानिष्टे प्रशस्' (7 / 2 / 150) इति शस् / द्वौ प्रकारौ त्रयः प्रकारा एषां 'तद्वति धण्' (7 / 2 / 108) इति धण् / 'वृद्धिर्यस्य स्वरेष्वादेः' (6 / 1 / 8) इति वृद्धिः / पथा संशयेन करणभूतेन द्वैधानि त्रैधानि / जस् // 32 // विभक्तिथमन्ततसाद्याभाः // 11 // 33 // , विभक्त्यन्ताभास्थमऽवसानतसादिप्रत्ययान्ताभाश्च शब्दा अव्ययसंज्ञाः स्युः / अहंयुः / शुभंयुः। अस्तिक्षीरा गौः / कुतः / कथम् // 33 // __ अ० थम् अन्ते येषां ते / तस् आदिर्येषां ते / विभक्तयश्च थमन्ताश्च तसादयश्च वि० / विभक्तिथमन्ततसादीनामाभा सादृश्यं येषां शब्दानां ते विभक्तिथमन्ततसाद्याभाः शब्दाः / अहं विद्यतेऽस्य शुभं विद्यतेऽस्य 'ऊर्णाहंशुभमो युस्' (7 / 2 / 17) इति युस् अहंयुः शुभंयुः / अस्ति विद्यमानं क्षीरं यस्याम् / कस्मात् ‘किमद्वया०' (7 / 2 / 89) इति तस् / केन प्रकारेण कथम् ‘कथमित्थम्' (7 / 2 / 103) निपातः / अहं शुभं कृतं पर्याप्तम्, येन तेन चिरेण अन्तरेण, ते मे चिराय अह्राय, चिरात् अकस्मात्, चिरस्य अन्योऽन्यस्य, एकपदे अग्रे प्रगे प्राह्ने हेतौ, इत्यादि स्यादिविभक्त्यन्ताभाः / / अस्ति, नास्ति, असि, अस्मि, विद्यते, भवति, एहि, मन्ये, शङ्के, अस्तु, भवतु, स्यात्, पूर्यते, आह, वर्त्तते, न वर्त्तते, पश्य, पश्यतेत्यादि त्यादिविभक्त्यन्ताभाः शब्दा ज्ञेयाः // 33 // वत्तस्याम् // 1 // 1 // 34 // वत् तसि आम् प्रत्ययान्तः शब्दोऽव्ययं स्यात् / मुनिवद् वृत्तम् / क्षत्रियवत् / उरस्तः / उच्चैस्तराम्। उच्चैस्तमाम् // 34 // अ० तद्धितवत्तसिसाहचर्यात् 'किंत्याद्य०' (7 / 3 / 8) इति तद्धितकृतस्यामो ग्रहणम् / मुनेरहँ मुनिवत् 'तस्यार्हे क्रियायां वत्' (7 / 1 / 51) इति वत् / क्षत्रिया इव ‘स्यादेरिवे' (7 / 1 / 52) इति वत् / उरसा एकदिग् 'यश्चोरसः'