________________ श्रीसिद्धहेमशब्दानुशासने प्रथमाध्यायस्य प्रथमः पादः क्तिवाक्यवर्जितमऽर्थवच्छब्दरूपं नामसंज्ञं स्यात् / वृक्षः स्वः धवश्च / अधातुविभक्तिवाक्यमिति किम् ? अहन्, वृक्षान्, साधुर्धर्म ब्रूते // 27 // अ० दधाति क्रियालक्षणमर्थम् इति धातुः / 'कृसिकम्यमिगमितनिमनिजन्यसिमसिसच्यविभाधागाग्लाम्लाहन्हायाहिशिपूभ्यस्तुन् (773) इति तुन् / धातुश्च विभक्तिश्च वाक्यं च धा० / न धातु० अधातु विभक्तिवाक्यम्। 'ऋक् गतौ' / अर्यते गम्यते पुरुषैरित्यर्थः / 'कमिपुगार्तिभ्यस्थः' (225) इति थः / अर्थोऽस्यास्तीति / तदस्य०' (72 / 1) इति मतुः / 'मावर्ण०' (2 / 194) इति मस्य वः / सिः / अर्थशब्दोऽभिधेयनिवृत्तिप्रयोजनधनेषु वर्त्तते। इह चाभिधेयार्थः / 'अभिधेयं किमुच्यते तदाह- स्वार्थो द्रव्यं लिङ्ग सङ्ख्या शक्तिरिति / तत्र गोवृक्षादिशब्दानां गोत्ववृक्षत्वादिसामान्यं स्वार्थं विशेष्यम् इत्युच्यते / शाखादिमत्त्वविशेषणं द्रव्यम् / पुंस्त्वादि लिङ्गम् / एकद्वित्वादि सङ्ख्या / कादि शक्तिः / योत्यश्च समुच्चयादिः / आदिशब्दाद्विकल्पावधारणादिः / 'हनंक हिंसागत्योः' हन् ह्यस्तनीदि ‘अड्धातोरादिस्तिन्यां चा०' (4 / 4 / 29) इति अट् 'व्यञ्जनादेः सश्च दः' (4 / 3 / 78) इति दिलुप्। वृक्षान् / शस् / ‘शसोड़ता सश्च नः०' (1 / 4 / 49) इति दीर्घः सस्य न् // 27 // . शिघुट् // 11 // 28 // जस्शसादेशः शिः घुटसंज्ञः स्यात् / पद्मानि पयांसि // 28 // अ० पद्मानि अत्र जस् / पयांसि अत्र शस् / 'नपुंसकस्य शिः' (1 / 4 / 55) अनेन जस्शसोः शिः / 'अप्रयोगीत्' (1 / 1 / 37) इः / एकत्र ‘स्वराच्छौ (1 / 4 / 65) अन्यत्र 'धुटां प्राक्' (1 / 4 / 66) इति नोऽन्तः / एकत्र ‘नि दीर्घः' (1 / 4 / 85) अन्यत्र 'न्स्महतोः' (1 / 4 / 86) इति दीर्घः // 28 // स्त्रियोः स्यमौजस् // 1 // 1 // 29 // सिं औ जस् अम् औ इत्येते पुंसि स्त्रियाञ्च घुटसंज्ञा भवन्ति / राजा राजानौ राजानः। राजानं राजानौ / स्त्रियाम्-सीमा सीमानं सीमानौ 2 सीमानः / [सर्वत्र ‘नि दीर्घः'] // 29 // अ० पुमांश्च स्त्री च पुंस्त्रियौ / तयोः सप्तम्योस् / 'स्त्रियाः' (2 / 1 / 54) इति इय् / सूत्रे औ इति प्रथमाद्वितीयाद्विवचनयोरविशेषेण ग्रहणम् / अतो वृत्तौ उभावपि दर्शितौ // 29 / / . : स्वरादयोऽव्ययम् // 1 // 1 // 30 // ['जस्येदोत्' (1 / 4 / 22) इति ए] - स्वरादयः शब्दा अव्ययसंज्ञाः स्युः / स्वर् / अन्तर् / प्रातर् इत्यादयः // 30 // अ० 'इण्क् गतौ' / इ न वि पूर्वम् / न व्येति न क्षयं यातीत्यव्ययम् / 'लिहादिभ्यः' (5 / 1 / 50) इत्यच् / अन्वर्थसंज्ञा चेयम् / अव्ययमिति लिङ्गविभक्तिकारकनानात्वेऽपि नानारूपतां नाश्रयते / यदुक्तम्-सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु / कारकेषु च सर्वेषु यन्न व्येति तदव्ययम् / / 1 / / अन्वर्थाश्रयणे च स्वराद्यं, स्वराद्यन्तं च (स्वराद्यव्ययमव्ययं भवतीति स्वरादेविशेषणत्वेन तदन्तविज्ञानात्) अव्ययमक्षयमेव भवति इति स्वरादेर्विशेषणत्वेन तदन्तविज्ञानात् परमोचैरित्यादावष्यव्ययसंज्ञा / स्वरादिशब्दा ह्यव्ययाः स्वार्थस्य स्वाभिधेयस्य स्वर्गादेर्वाचकाः, न तु चादिवत् द्योतकाः / स्वः इति सर्वविभक्त्यामप्येक एव रूपम् / / 30 / / चादयोऽसत्त्वे // 1 // 1 // 31 // ["जस्येदोत्' ए] असत्त्वे अद्रव्ये वर्तमानाश्चादयः शब्दा अव्ययसंज्ञा भवन्ति / वृक्षश्च प्लक्षश्च / च / वा / अह / एव।