________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलङ्कृते . नगादिकमिति तडित् / ‘हसुरुहियुषितडिभ्य इत्' (887) / तडिद्विद्यते यस्य ‘तदस्यः' (7 / 2 / 1) इति मतुः / 'मावर्ण०' (2 / 1 / 94) इति मस्य वः / पदसंज्ञाऽभावादत्र सोरुः (2 / 1 / 72) 'धुटस्तृतीयः' (2 / 1176) इति न भवति / सिः / एकत्र ‘इन्हन्० (1 / 4 / 87) इत्यादि दीर्घः / अन्यत्र 'ऋदुदितः' (1 / 4 / 70) इति न् अन्तः, 'अभ्वादेर०' (1 / 4 / 90) इति दीर्घः, ‘पदस्य' (2 / 1 / 89) इति तलोपः // 23 // . मनुर्नभोऽङ्गिरो वति // // 24 // मनुस् नभस् अङ्गिरस् इत्येतानि वति परे पदं न स्युः / मनुष्वत् / नभस्वत् / अङ्गिरस्वत्॥२४॥ अ० मनुश्च नभश्च अङ्गिराश्च मनुर्नभोऽङ्गिरः / जस् / मनुरिव मनुष्वत् / नभ इव / अङ्गिरा इव / ‘स्यादेरिवे' (7 / 1152) इति वत् // 24 // वृत्त्यन्तोऽसषे॥११॥२५॥ [अंतर्वर्तिनीं विभक्तिमाश्रित्य पदसंज्ञा प्राप्ता सती अनेन सूत्रेण वृत्तेरन्तः पदसंज्ञो न भवति] परार्थाभिधायी समासादिवृत्तिः / तस्यान्तोऽवसानं पदं न स्यात् / असषे सस्य तु षत्वे पदमेव / परमदिवौ / बहुदण्डिनौ / असष इति किम् ? दधिसेक् // 25 // अ० 'वृतङ् वर्त्तने' / वर्त्तनं वृत्तिः / 'स्त्रियां क्तिः' (5 / 3 / 91) वृत्तेरन्तो वृत्त्यन्तः / कोऽर्थः समासान्तः / वृत्तिरिति समास उच्यते / सा च त्रिधा समासवृत्तिः तद्धितवृत्तिः नामधातुवृत्तिश्च / राज्ञः पुरुषो राजपुरुषः समासः / औपगव इति तद्धितः / पुत्रकाम्यति इति नामधातुवृत्तिः / परमा द्यौर्ययोस्तौ परमदिवौ / अत्र समासान्ते पदत्वाभावात् 'उः पदान्तेऽनूत्' (2 / 1 / 118) इति उत्वं नाभूत् / बहुदण्डिनावित्यत्र तु नस्य लुक् न प्रवृत्तः / सिञ्चतीति सेक्। 'मन्वन्क्वनिप्विच्' (5 / 1 / 147) इति विच् / 'अप्र०' (1 / 1 / 37) लुप् / दध्नः सेक् दध्रिसेक् / अत्र पदसंज्ञायां पदादित्वात् सकारस्य 'नाम्यन्तस्था०' (2 / 3 / 15) इति षत्वं न भवति / 'नाम्यन्तस्था०' इति सूत्रे ‘पदान्तः' कोऽर्थः - पदमध्ये सकारस्य षो भवति / पदादौ न भवति इति व्यावृत्तिबलात् षो न भवति / पदमध्यद्वारेण षस्य प्राप्तिरस्ति इत्याशयः // 25 / / सविशेषणमाख्यातं वाक्यम् // 11 // 26 // साक्षात् पारम्पर्येण वा यान्याख्यातविशेषणानि तैः [कर्तृकर्मकरणादिभिः] प्रयुज्यमानैरऽप्रयुज्यमानैर्वा सहितं प्रयुज्यमानमप्रयुज्यमानं वाख्यातं [साक्षात्-पारम्पर्येण गम्यमानं त्याद्यन्तं पदम्] वाक्यसंज्ञं स्यात् / धर्मो वो रक्षतु / धर्मो नो रक्षतु / लुनीहि 3 पृथुकांश्वरवाद / शीलं ते स्वम् // 26 // अ० सह विशेषणेन वर्त्तते 'सहस्य सोऽन्यार्थे' (3 / 2 / 143) इति सः / आख्यायते स्म 'तक्तवतू' (5 / 1 / 174) आख्यातम् / उच्यते स्म 'ऋवर्णव्यञ्जनाद् ध्यण' (5 / 1 / 17) 'क्तेऽनि०' (4 / 1 / 111) वाक्यम् / लुनीहि 'लूग्श् छेदने' / पञ्चमीहि / 'फ्यादेः' (3 / 4 / 49) श्ना / 'अप्रयोगीत्' ना तिष्ठति / 'एषामीळञ्जनेऽदः' (4 / 2 / 97) ईकार: ‘प्वादेर्हस्वः' (4 / 2 / 105) / खाद इत्यत्र ‘अतः प्रत्ययाल्लुक्' (4 / 2 / 85) इति हेर्लुक् / शीलं ते स्वं इत्यप्रयुज्यमानाख्यातोदाहरणम् / / 26 / / अधातुविभक्तिवाक्यमऽर्थवन्नाम // 1 // 1 // 27 // (अर्थोऽभिधेयः१ स्वार्थो द्रव्यं लिङ्गं सङ्ख्या शक्तिरिति, योत्यश्च समुच्चयादिः२) / धातुविभ