________________ श्रीसिद्धहेमशब्दानुशासने प्रथमाध्यायस्य प्रथमः पादः इति अस्य लोपः / वः / युष्मद् षष्ठी आम् / ‘पदाधुगविभक्त्यैकवाक्ये वस्नसौ बहुत्वे' (2 / 1 / 21) इत्यनेन विभक्त्या सह वसादेशः / नः / अस्मद् चतुर्थीभ्यस् / ‘पदाद्येति०' (2 / 1 / 21) नस् / ददाति 'डुदांगक् दाने' दा / तिव् / 'हवः शिति' (4 / 1 / 12) इत्यनेन द्विः / 'ह्रस्वः' (4 / 1 / 39) इति ह्रस्वः // 20 // नाम सिदय्व्यञ्जने // 11 // 21 // __ सिति प्रत्यये यवर्जन्यञ्जनादौ च परे पूर्व नाम पदसंज्ञं स्यात् / भवदीयः / पयोभ्याम् / अयिति किम् ? वाच्यति // 21 // अ० नामेति / नमति धातवे अथवा नमति प्रह्वीभावं गच्छति अर्थं प्रति इति नाम / 'सात्मन्नात्मन्' (916) इति निपातः / सिः / 'अनतो लुप्' (1 / 4 / 59) 'नाम्नो नोऽनह्नः' (2 / 1 / 91) इति नस्य लोपः / न य् अय् / 'नञत्' (3 / 2 / 125) / अय् च तत् व्यञ्जनं च अय्व्यञ्जनम् / सिच्च अय्व्यञ्जनं च तस्मिन् / भातीति भवान् 'भातेर्डवतु' (886) / भवतोऽयं भवदीयः ‘भवतोरिकणीयसौ' (6 / 3 / 30) इति ईयस् / अत्र पदसंज्ञत्वात् 'धुटस्तृतीयः' (2 / 1 / 76) इति तस्य दत्वम् / 'पां पाने' / पीयते तृषातैरिति पयः / ‘पाहाक्भ्यां पयह्यौ च' (953) इत्युणादिनाऽस्प्रत्ययः पय आदेशः / अथवा अयिवयिपयि इति दण्डकधातुः / पय् / पयते याति स्वभावान्निम्नप्रदेशमिति पयः / अस् (952) इत्युणादिसूत्रेणास् / पयोभ्याम् इत्यत्र पदान्तत्वात् 'सोरुः' (2 / 1 / 72) इति सस्य रः ‘घोषवति' (1 / 3 / 21) इति रस्य उः सिद्धः / वाचमिच्छति क्यन्प्रत्ययः // 21 / / . नं क्ये // 1 // 1 // 22 // ___क्य इति क्यन्क्यङ्ग्यक्षां ग्रहणम् / नान्तं नाम क्ये परे पदं स्यात् / राजीयति राजायते चर्मायति // 22 // .. अ० नं क्ये इति सूत्रार्थे नान्तं नाम इत्यत्र नामेति विशेष्यपदं नान्तं इति विशेषणपदम् / इति सूत्रे नं इत्यत्र क्लीबत्वम् / एवं 'नस्तं मत्वर्थे' (1 / 1 / 23) इत्यत्रापि ज्ञेयम् / 'राजृग् टुभ्राजि दीप्तौ' राज् / राजते शोभते छत्रचामराद्यैरिति राजा / 'उक्षितक्षिअक्षिईशिराजि०' (900) इत्यादिना कन् / राजानमिच्छति राजीयति 'अमाव्ययात् क्यन् च' (3 / 4 / 23) इति क्यन् / राजेवाचरति राजायते 'क्यङ्' (3 / 4 / 26) अचर्मवान् चर्मवान् भवति चर्मायते 'डाच लोहिताभ्यः पित्' (3 / 4 / 30) इति लोहितादिगणद्वारेण क्यङ् / अत्र पदसंज्ञात्वे नस्य लोपः ततः 'क्यनि' (4 / 3 / 112) इतीकारः राजीयति / राजायते चर्मायते इत्यत्र तु 'दीर्घश्च्वियङ्यक्क्येषु च' (4 / 3 / 108) इति दीर्घः / चायति चर्मायते इति प्रयोगद्वयम् / 'क्यषो नवा' (3 / 3 / 43) इति आत्मने पदं वा स्यात् / / 22 / / न स्तं मत्वर्थे // 1 // 1 // 23 // [नामसिदिति प्राप्ते 'नस्तं मत्वर्थे' इत्यनेन पदसंज्ञाप्रतिषेधः] साऽन्तं ताऽन्तं च नाम मत्वर्थे परे पदं न स्यात् / यशस्वी तडित्त्वान् // 23 // अ० स् च तश्च स्तं / सिः / सूत्रत्वाल्लोपः / मतुर्मत्वर्थोऽर्थो यस्य स मत्वर्थस्तस्मिन् मत्वर्थे कोऽर्थःमत्वर्थीये प्रत्यये परे सति / मतु विन् इन् इति प्रत्ययत्रयं मत्वर्थीय इति संज्ञं स्यात् / 'अशूटि व्याप्तौ' अश् / अश्नुते व्याप्नोति सर्वं जगदिति यशः / 'अशेर्यश्चादिः' (958) इति अस्प्रत्ययः अस्य स्थाने य इत्यादेशः / यशो विद्यते यस्य सः 'अस्तपोमायामेधास्रजो विन्' (7 / 2 / 47) इति विन् / 'तडण् आघाते' तड् / ताडयति 1.. एकस्मिन्नर्थे एकपक्त्या निर्दिष्टा धातवः /