________________ श्रीसिद्धहेमशब्दानुशासने प्रथमाध्यायस्प प्रथमः पादः (6 / 3 / 212) इति तस् / द्वयोर्मध्ये प्रकृष्टं [उच्चैः] उचैस्तरः, बहूनां मध्ये प्रकृष्टं उच्चैस्तमः 'द्वयोर्विभज्ये तरप्' (7 / 3 / 6) 'प्रकृष्टे तमप्' (7 / 3 / 5) / ततः 'किन्त्याद्येऽव्ययादसत्वेतयोरन्तस्याम्' (7 / 3 / 8) इत्याम् // 34 / / - क्त्वातुमम् // 11 // 35 // स्त्वातुमम्प्रत्ययान्तं शब्दरूपमन्ययं स्यात् / कृत्वा / कर्तुम् / यावज्जीवमदात् ['पिबैतिदाभूस्थः सिचो लुप् परस्मै न चेट्' (1366) इति सिचो लुप / स्वादुङ्कारं भुङ्क्ते // 35 // अ० कृत्क्त्वातुम्साहचर्यात् अनुबन्धरहितणम्ख्णम्सम्बन्धी अम् गृह्यते / करणाय कर्तुम् ‘क्रियायां क्रियार्थायां तुम्णकच्भविष्यन्ती' (5 / 3113) इति तुम् / यावन्तं कालं जीन्यते यावज्जीवम् ‘यावतो विन्दजीवः' (5 / 4 / 55) इति णम् / स्वादुनः करणं पूर्वम् / 'स्वाद्वाददीर्घात्' (5 / 4 / 53) इति ख्णम् / 'ञ्णिति' (4 / 3 / 50) इति वृद्धिः 'खित्यनव्यया०' (3 / 2 / 111) इति मोन्तः // 35 / / - गतिः // 11 // 36 // गतिसंज्ञमन्ययं स्यात् / अदः कृत्य / रः सो न स्यात् // 36 // अ० अदः करणं पूर्वम् / ‘अग्रहानुपदेशेन्तरदः' (361 / 5) इति गतिसंज्ञा / अत्राव्ययत्वे ‘अतः कृतमि०' (2 / 315) इति रकारस्य सकारो न भवति // 36 // . अप्रयोगीत् // 11 // 37 // इह शास्त्रे उपदिश्यमानो वर्णस्तृत्समुदायो वा यः शब्दप्रयोगे न दृश्यते स एत्यपगच्छतीति इत्संज्ञः स्यात् / 'एधि' एधते / 'यजीं'- यजते यजति / 'चित्र' चित्रीयते // 37 // अ० प्रयोगः शब्दस्योचारणमस्यास्ति प्र० / न प्रयो० अप्रयोगीति संज्ञिनिर्देशस्य इत्संज्ञा क्रियते / प्रयोगव्यापारस्तु धातुनामप्रत्ययविकारागमेषु कार्यार्थः / तत्र धातौ-'एधि' वृद्धौ इङित्वादात्मनेपदम् 'यजीं' इति ईगित्वादुभयपदम् / नाम्नि चित्रीयते 'चित्रङ् आश्चर्ये' 'चित्रमाश्चर्यं करोति 'नमोवरिव०' (3 / 4 / 37) इति क्यन् डित्वादात्मनेपदम् ‘क्यनि' (4 / 3 / 112) इति ईः / एवं विबादिप्रत्यये ज्ञातव्यम् // 37 / / अनन्तः पञ्चम्याः प्रत्ययः // 11 // 38 // [न अन्तः अनन्तः 'अन् खरे' (3 / 2 / 129) अन् / 'स्त्रीदूतः' (1 / 4 / 29) इति दास्] पञ्चम्यर्थाद्विहितः (कृतः) प्रत्ययसंज्ञो भवति / अनन्तः चेत्- यद्यन्तशब्दोच्चारणेन विहितो न भवति। 'नाम्नः प्रथमैकद्विबही' (2 / 2 / 31) वृक्षः वृक्षौ वृक्षाः। अनन्त इति किम् ? आगमः 'प्रत्ययो माभूत् // 38 // अं० यथा 'नाम्नः प्रथमै०' इति / अथवा 'गुपौधूपविच्छिपणिपनेरायः' (3 / 4 / 1) 'ऋवर्णव्यञ्जनान्ताद् ध्यण्' (5 / 1 / 17) / 'प्रत्ययः इत्यादि- यथा 'उदितः स्वरान्नोऽन्तः' (4 / 4 / 98) इत्यादि // 38 // डत्यतु सङ्खयावत् // 11 // 39 // डतिप्रत्ययान्तं अतुप्रत्ययान्तं च नाम सङ्ख्याकार्यभाग् भवति / कतिकः / कतिधा / यावत्कः। कियत्कः // 39 // अ० डतिश्च अतुश्च (डत्यतु) / सङ्खयेव सङ्ख्यावत् ‘स्यादेरिवे' (7 / 1 / 52) इति वत् / कतिकः-किम् ? का सङ्ख्यामानमेषां कति –'यत्तत्किमः सङ्ख्याया डतिर्वा' (7 / 1 / 150) इत्यनेन डतिप्रत्ययः ‘डित्यन्त्य०'