________________ 12 कलिकालसर्वज्ञमीहेमचन्द्राचार्यविरचिते मध्यमवृत्वकारिभ्यामलते (2 / 1 / 114) इत्यन्त्यस्वरादिलोपः / कतिभिः क्रीतः 'सङ्ख्याडतेश्चाशत्तिष्टेः कः' (6 / 4 / 130) इति कप्रत्ययः कतिकः / कतिधाकतिभिः प्रकारैः 'सङ्चाया धा' (7 / 2 / 104) इति धा / यावत्-यत् प्रमाणमस्य 'यत्तदेतदो डावादिः' (7 / 1 / 149) इति डावत् / यावद्भिस्तावद्भिः क्रीतः 'सङ्ख्याड०' इति कः यावत्कः / कियत्कः-का सङ्ख्या मानमेषां कियतः 'इदंकिमोऽतुरिय् किम् चास्य (7 / 1 / 148) इति अतुप्रत्ययः किमः किय् इत्यादेशः, कियद्भिः क्रीतः 'सङ्ख्याडतेश्चा० इति कः // 39 // ....... .... बहुगणं भेदे // 1 // 40 // . बहुगणशब्दौ भेदवृत्ती सङ्ग्यावद्भवतः / बहुकः / गणकः / भेद इति किम् ? वैपुल्ये सङ्के च मा भूत् / // 40 // अ० बहुश्च गणश्च (बहुगणम्) / भेदो नानात्वमेकत्वविरोधि / तत्र वर्तमानौ बहुगणौ / बहुभिः क्रीतम् अत्रापि सङ्ग्यात्वात् 'सल्याडते.' (6 / 4 / 130) इति कः / यत्र बहुशब्दो वैपुल्ये महति वर्त्तते गणश्च सङ्के समूहे तत्र सझ्याक्नहि // 40 // कसमासेऽध्यर्द्धः // 14 // [कम समासत्र तस्मिन्] अध्यर्द्धशन्दः कात्यये समासे च कर्तव्ये सङ्ग्यावत्स्यात् / अध्यर्द्धकम् (अध्यर्थेन क्रीतम् ‘सङ्ग्याडते.' (1 / 4 / 130) (इति) कः) / अध्यर्द्धसूर्णम् // 41 // ___अ० अध्यर्द्धसूर्पमिति / अत्र अध्यर्द्धन सूर्पण क्रीतमिति वाक्ये 'कंसार्द्धात्' (6 / 4 / 135) इत्यनेन इकट् प्रत्ययः। तस्यानाम्न्येति (6 / 4 / 141) लुप् / बृहद्वृत्तौ तु 'मूल्यैः क्रीते' (64 / 150) इति क्रीतार्थे कृतस्य इकणः 'अनाम्न्यऽद्विः प्लुप्' (6 / 4 / 141) इत्यनेन लुप् इत्युक्तम् / सम्यग् (तु) वैयाकरपा विदन्ति // 41 // - अर्द्धपूर्वपदः पूरणः // 11 // 42 // ___ अर्द्धपूर्वपदः पूरणप्रत्ययान्तः शब्दः कप्रत्यये समासे च कर्त्तव्ये सङ्ग्यावत्स्यात् / अर्द्धपञ्चमकम् / अर्द्धपञ्चमसूर्णम् // 42 // अत्र पादेऽक्षरगणनया श्लोक 62 // - अ० पूर्व च तत्पदं च पूर्वपदम् / अर्द्धम् इति पूर्वपदं यत्र पूरणप्रत्ययान्तशब्दै सोऽर्द्धपूर्वपदः / अर्द्ध पञ्चमकम् / अर्द्धपञ्चमेन क्रीतं अर्द्धपञ्चमकम् 'सङ्ख्याडते.' (6 / 4 / 130) इति कः / तथापञ्चमसूर्पण / अर्द्धपञ्चमैः सूर्पः क्रीतम् अर्द्धपञ्चमसूपम् 'सूर्पाद्वान्' (6 / 4 / 137) इति अञ् / अथवा 'मूल्यैः क्रीते' (6 / 4 / 150) इतीकण्। अथवा 'कंसाात्' (6 / 4 / 135) इत्यनेन इकट्प्रत्ययः / अञ् इकण इकटां त्रयाणामपि 'अनाम्न्यद्विः प्लुप्' इत्यनेन लुप् इति / अनाम्न्येति' बृहद्वृत्तायुक्तमस्ति (?) // 42 // इति श्रीसिद्धहेमशब्दानुशासने प्रथमस्याध्यायस्य मध्यमवृत्त्यवचूरिभ्यामलङ्कृतः प्रथमः पादः समाप्तः / / 1 / / 1. वहन्न्यासेऽपि 'अनाम्न्यदिः प्लप' (6141) इति अनेनैव लप उक्तोऽस्ति / /