Book Title: Loka Vinshika
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Manikyasagar Suri
View full book text
________________
द्वितीयविशिका
विद्यमानेऽपि नास्तीतरत्त्रयमिति कथडकारमुच्यते ? स्पर्शाद्यव्यभिचारि रूपमितिवाच्यं । यतो न हि किमप्यस्ति सचराचरेपि भुवने मूतं द्रव्य यद्भवेत् स्पर्शाद्यन्यतमाभाववत्, तादृशस्य पुद्गलस्यवा भावात् । 'स्पर्शरसगन्धवर्णवन्त पुद्गला' इति परमपुरुपवचनात् । यच्च नैति ग्राह्यता क्वचित्किञ्चित्किञ्चित् तदनुद्भत तदिति । नानुद्भ तमेति ग्राह्यता, भस्मावस्थाया व्यक्तभावमापन्नोपि पापाणस्थो यथा गन्ध । न चानुमीयतेऽसौ तत्र भस्मावस्थाया गन्धदर्शनेनावांगपि, 'यद्रव्य यद्रव्यध्वसजन्य तत्तदुपादानोपादेय मिति नियमात्, दृश्यते च पाषाणभस्मनि गन्धोऽविप्रतिपन्नतया । न चैव जलादावस्त्यनद्भ तगन्धादेरनुमाने हेतुर्येनान्मी तेतिवाच्य । यतो यथाहि-'यद् द्रव्य'मित्यादिनियमस्तथैवायमपि नियमो-यन्न पुद्गला स्पर्शाद्यन्यनमविकला सन्ति ! वाय्वादयोऽपि पुद्गलरूपास्त थानुपलभ्यमानास्ते तत्रानुद्भ ता सन्तीति बोध्यं वा । विचार्यता च-वायुविकारजातजलविकाररूपे करके किमिति न दृश्यन्ते गन्धा दयो',दृश्यन्ते चेद् यद् द्रव्य मितिनियमेन स्वीकारस्यावश्यम्भाव । तेजसोऽपि च तद्ध्वसजन्यधूमकज्जलादि न तदभाववत् । सति च तस्मिंस्तस्मितेजस्यपि कथ न स्वीकार्य गन्धादीति । अत एव च राद्धमुदगमाषादीनामग्निपुद्गलरूपता व्याख्याप्रज्ञप्ती व्याख्यातापि सङ्गच्छते । न चाग्निद्रव्यस्य निरन्वयो भवति नाशो, 'नासतो विद्यते भावो नाभावो विद्यते सत' इतिवचनात् । अनभ्युपगमे चास्य स्पष्ट गौद्धोदनिमतप्रवेश । परिणामस्यैव तथा तथाऽभ्युपगमे चोपपद्यते सर्व । एवमेवोद्योतस्यान्धकार , आतपस्य च छायादिरूप परिणामोऽवगन्तव्य इत्यल विवादेन ! स्थितमिद यदुत-रूप न स्पर्शादिव्यभिचारीति । यद्वा एकग्रहणे तज्जातीयग्रहण'मितिनियमाद् रूपग्रहणेनेन्द्रियगोचरा अन्येऽपि गन्धादयो ग्राह्या । विरोधा

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 259