Book Title: Loka Vinshika
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Manikyasagar Suri
View full book text
________________
द्वितीयविशिका
'मुक्तोपि वाऽभ्येतु भवं भवो वा, भवस्थशून्योऽस्तु मितात्मवादे । पड़ जीवकायं त्वमनन्तसडख्य-माख्यस्तथा नाथ ! यथा न दोष ।। इति । न च भवति विना जीवाना पार्थक्यं विभिन्नविभिनतमसुखदु खजानादि । अत्र मकारो ह्यलाक्षणिक, पृथक् पदे वा । नपुस्त्वं च प्राकृतगैल्यैव । यदाह पाणिनि –'लिडगमतन्त्र'मिति । एकारश्चोभयत्राऽपि 'एत्सी मागध्या पुसी तिसूत्रप्रभव.। द्वितीयावहुवचनोद्भवो वा । समासपक्षे एव सर्वत्र रूप्यरूप्यादावपि । अत्र च जीवाजीवयोर्लोकतामाख्यायद्भि पञ्चास्तिकायमयस्य षडद्रव्यमयस्य वा द्रव्यलोकतोक्ता। यतो नास्ति समस्तेऽपि भुवने सन्निकृष्टासनिकृष्ट द्रव्य यन्नतेष्वन्तर्भवति । यद्यपि व्याख्यायमानं द्रव्य पर्यायभावाद्यन्वितत्वान्न केवलो द्रव्यलोको, न चास्त्यपि तादृशः, पयायवर्जितस्य द्रव्यस्यैवासम्भवाद्यदाहु.- 'दव्व पज्जवविजुय दवविजुया अ पज्जवा नत्यि'त्ति । तथापि द्रव्यप्राधान्याद.
न व्यपदेशो। भवति चैवमपेक्षया व्यपदेशो युक्तियुक्त , 'अपितापितसिद्धे'रितिवचनादेवमेवाग्रेऽपि । एवं जीवाजीवत्वेनोक्त्वा । द्रव्यलोकता प्रकारान्तरेणाऽप्याहु -'रूवमरूवी'त्ति । प्रकारान्तरव्यपदेशो हि विवक्षाप्रभववाक्याना यथार्थताज्ञापनार्थ । यथाहि-'जीवाजीवौ द्रव्य ठोक' इतिवाक्यं यावद्व्यगोचरीकरणाद् द्रव्यलोकनिरूपणापेक्षयाऽवितय, तथैतेन प्रकारेणोच्यमानमप्यवितथ मेवेति । विवक्षया वा भवति द्रव्याणा विभागस्तत्र जीव वेतरधर्माभ्या विभागोऽन्यत्र च रूपेतरत्वादिनेतिदर्शनाय वा। तत्र रूप्यतेनिरूप्यते इन्द्रियैरिति रूप-स्पर्शादितद्वद् पिद्रव्यमितिप्रकृत । अत एव च 'रूपिणः पुद्गला' इत्यत्र मूर्त्ता इति व्याख्यान सङगच्छते । न भवति च रूप स्पर्गादिव्यभिचारि । न च जले रूपरसस्पर्शसत्त्वेऽपि गन्ध'य, तेजसि रूपस्पर्शसद्भावेऽपि रसगन्धयोः वायौ च स्पर्श

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 259