Book Title: Laghu Siddhant Kaumudi Part 02
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd
________________
प्रकरणम् १७ ] बालमनोरमात्तत्त्वबोधिनीसहिता। [३ समर्थाश्रितो बोध्यः । ६४८ प्राकडारात्समासः । (२-१-३) 'कडाराः कर्मधारये (सू ०५७) इत्यतः प्राक् समास इत्यधिक्रियते । ६४६ सह सुपा। देवदत्तं पश्येत्यादिप्रयोगदर्शनात् स्थानिनोऽपि लस्य प्रक्रियार्थ कल्पितस्य अप्रयमासामानाधिकरण्यमनुमीयते' इति कैयटः । अत्र प्रक्रियाथ कल्पितस्येत्युक्त्या अन्यस्यापि प्रक्रिया कल्पितस्य बोधकत्वकल्पना सुचिता। अलौकिकविग्रहवाक्ये श्रूयमाणानां च शब्दानां क्लृप्तशक्तित्यागे मानाभावात् प्रत्येकशक्तिसहकृतया समुदायशक्त्या विशिष्टोपस्थितिः । ततश्च अयमेकार्थीभावः अजहत्स्वार्थी वृत्तिरिष्यते । वृत्तिविषये पदानां प्रत्येकमनर्थकत्वमाश्रित्य जहत्स्वार्थी वृत्तिस्तु नाश्रयितुं युक्ता, महाबाहुः, सुपन्था इत्यादी आत्त्वायनापत्तेः, वृत्तौ महदादिशब्दानामनर्थकत्वाद् अर्थवग्रहणसंभवे अनर्थकस्य 'आत्महतः-' इत्यादौ ग्रहणायोगात् । तदुक्तम्
'जहत्स्वार्था तु तत्रैव यत्र रूढिविरोधिनी।' इति ।
अवयवार्थविरुद्धो यत्र समुदायार्थस्तत्रैव सेति तदर्थः । यथा अश्वकर्णमण्डपादौ । विस्तरस्तु शब्देन्दुशेखरे मञ्जूषायां चानुसंधेयः । समर्थः किम् ? पश्य कृष्णं श्रितो राममित्रम् । अत्र कृष्णश्रितयोः परस्परान्वयाभावाद्विशिष्टैकार्थोपस्थित्यजनकत्वान सामर्थ्यम् । प्राकडारात् । 'आकडारात्' इत्येव प्रागिति सिद्धे प्राग्ग्रहणमेक सज्ञाधिकारेऽपि अव्ययीभावादिसंज्ञासमुच्चयार्थमिति भाष्ये स्पष्टम् । संपूर्वकस्य अस्यतेरे. कीकरणात्मकः संश्लेषोऽर्थः । समस्यते अनेकं पदमिति समासः । 'अकर्तरि च कारके संज्ञायाम्' इति कर्मणि घञ् । अत एव मूले समस्यत इति वक्ष्यते । तथा च अन्वर्थेयं संज्ञा । सह सुपा । 'सुबामन्त्रिते' इत्यतः सुबित्यनुवर्तते । सुबन्तं सुबन्तेन सहोचारितं समाससंशं भवतीति फलति । एवं सति पर्यभूषयदित्यादौ सुबन्तस्य तिङन्तेन स्यादित्याहुः । सूत्रे समर्थशब्दो लाक्षणिक इति ध्वनयन्नाह--समर्थाश्रित इति । समयेति किम् , पश्यति कृष्णं श्रितो देवदत्तमित्यादौ कृष्णश्रित इत्यादि समासो मा भूत् । तथा वस्त्रमुपगोरपत्यं चैत्रस्येत्यत्र 'तस्यापत्यम्' इत्युपगुशब्दादण् मा भूदिति । कचित्तु सापेक्षत्वेऽपि भाष्यप्रामाण्याद् वृत्तिरङ्गीक्रियते। तद्यथा-किमोदनं शालीनाम् । केषां शालीनामोदनमित्यर्थः । सक्त्वाढकमापणीयानाम्। पापणीयानां सक्तूनामाढकमित्यर्थः । कुतो भवान् पाटलिपुत्रकः । द्वे पाटलिपुत्रे, तत्र कस्मात्पाटलिपुत्राद्भवानागत इत्यर्थः । 'रोपधेतोः प्राचाम्' इति वुञ् । प्राकडारात्समासः। प्राग्ग्रहणमावर्तते, तेन पूर्व समाससंज्ञा ततः संज्ञान्तरमपीति लभ्यते । तेनाव्ययीभावादिभिः समावेशः सिद्धयति । अन्यथा पर्यायः स्यात् । समसनं समासः, भावे घञ् । अनेकस्य पदस्य एकपदीभवनमित्यर्थ इत्येके । वस्तुतस्तु-'अकर्तरि च कारके-' इति कर्मणि घश् ।
Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 716