Book Title: Laghu Siddhant Kaumudi Part 02 Author(s): Girdhar Sharma, Parmeshwaranand Sharma Publisher: Motilal Banrassidas Pvt LtdPage 15
________________ १२ ] सिद्धान्तकौमुदी । | अव्ययीभाव द्वितीयापञ्चम्योर्विधानसामर्थ्यात् । मद्राणां समृद्धिः संमंद्रम् । यवनानां व्यृद्धिदुर्यवनम् । विगता ऋद्धिब्यृद्धिः । मक्षिकाणामभावो निर्मत्तिकम् । हिमस्यास्यविधानसामर्थ्यादिति । 'समया ग्रामम्, निकषा लङ्काम्, आराद्व नातू' इत्यत्र शेषषष्ठयां सत्यामपि अव्ययीभावसमासे सति प्रातिपदिकावयवत्वाद् उपपदविभक्त्योः द्वितीयापञ्चम्योः षष्ठया वा लुकि समासात् प्रातिपदिकार्थादिविवक्षायां सर्वासु विभक्तिषु जातासु यथायथम् अम्भावे तद्विकल्पे च 'समयाप्रामम्, निकषालङ्कम्, प्राराद्वनम्, समयाप्रामेण निकषालङ्केन, आराद्वनेन, समयाप्रामे, निकषालङ्के, आराद्वने' इति स्यादेव । ततश्च द्वितीयापञ्चम्योर्विधिर्व्यर्थः स्यात्, षष्ठ्यैव गतार्थत्वात् । न च समासात् पुनरुपपदविभक्ती द्वितीयापञ्चम्यौ शङ्कधे, सकृत्प्रवृत्तयोः पुनः प्रवृत्त्ययोगात् । वस्तुतस्तु मध्यार्थकसमयाशब्दयोगे द्वितीयाविधानस्य दूरार्थकाराच्छब्दयोगे पञ्चमीविधानस्य चरितार्थत्वाद् इदमयुक्तम् । न चैवं सति 'समया ग्रामम्' इत्यादौ अव्ययीभावः शङ्कयः, अभक्ष इत्यादाविव विभक्त्यर्थसमीपादिमात्रवृत्त्यव्ययस्यैव ग्रहणात् समयानिकषाssराच्छब्दानां चाधिकरणशक्तिप्रधानतया समीपमात्रवृत्तित्वाभावात् । ग्रामस्य समीपे इति हि तेषामर्थः । उपशब्दस्तु तन्मात्रवाची । उपकृष्णं भक्ता इत्यत्र कृष्णसामीप्य - वन्त इति बोधात् । मद्राणां समृद्धिरिति । संमित्यव्ययपर्यायः समृद्धिशब्दो विग्रहवाक्ये ज्ञेयः । एतत्सूत्रविहितसमासस्य नित्यतया स्वपदविग्रहः । एवमग्रेऽपि ज्ञेयम् । संमद्रमिति । सर्वत्र सुब्लुगादि पूर्ववज् ज्ञेयम् । समृद्वा मद्राः संमद्रा इत्यादौ तु नाव्ययीभावः, वचनग्रहणसामर्थ्येनाव्ययार्थप्राधान्य एव तत्प्रवृत्तेरिति भाष्ये स्पष्टम् । यवनानां व्यृद्धिदुर्यवनमिति । दुर्शब्दार्थको व्यृद्विशब्दो विग्रहे ज्ञेयः । विगतेति । श्रभावप्रतियोगिनीत्यर्थः । ऋद्धेरभावो व्यृद्धिरिति यावत् । न चार्थाभावेऽयमिति भ्रमितव्यम् समस्यमानपदार्थाभावस्यैव तत्र विवक्षितत्वात्, इह च यवनाभावस्याप्रतीतेः । यवनीयवृद्ध्यभावस्यैव प्रतीतेः । तद् वनयन्न् अर्थाभाव उदाहरति-मक्षिकाणामभावो निर्मक्षिकमिति । विग्रहे निशब्दसमानार्थतु ‘संख्ययाव्ययासन्ना-’इति बहुव्रीहिर्वक्ष्यति 'उपदशाः' इति यथा। विधानसामर्थ्यादिति । ननु समया ग्राममित्यादौ द्वितीयाविधानसामर्थ्यान्मास्त्वव्ययीभावः, श्राराद्वनादित्यत्र तु भवेदेव, ‘अन्यारात् -' इति इति पञ्चमी विधानस्य दूरार्थकाराच्छब्दयोगे सावकाशत्वादिति चेत्, अत्र केचिदुत्प्रेक्ष्यन्ति - ' दूरान्तिकार्थैः षष्ठयन्यतरस्याम्' इति षष्ठीपञ्चम्योः प्राप्तयोस्तदपवादतया पञ्चम्येव तेन विधीयते । तथा चान्तिकार्थकाराच्छब्दयोगे षष्ठयपवादतया पञ्चमीविधानं निरवकाशमेवेति तत्सामर्थ्यादव्ययीभावो नेत्युक्तिः सम्यगेवेति । तदपरॆ न क्षमन्ते । 'अन्तिकार्थाराच्छब्दयोगे विशिष्य पञ्चमीविधाना१ अयं पाठो बालमनोरमानुरोधी । इतरत्र तु 'सुमद्रम्' इति पाठः । ,Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 716