Book Title: Laghu Siddhant Kaumudi Part 02
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

Previous | Next

Page 18
________________ प्रकरणम् १७ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ १५ द्वितीयागर्भं वाक्यमपि । शक्तिमनतिक्रम्य यथाशक्ति । हरेः सादृश्यं सहरि । वच्यमाणेन सहस्य सः । ज्येष्ठस्यानुपूर्येणेत्यनुज्येष्ठम् । चक्रेण युगपदिति विग्रहे६६० अव्ययीभावे चाकाले । ( ६-३-८१ ) सहस्य सः स्यादव्ययीभावे, नै तु काले । सचक्रम् | काले तु सहपूर्वाहम् । सदृशः सख्या ससखि । यथार्थस्वेनैव सिद्धे पुनः सादृश्यग्रहणं गुणभूतेऽपि सादृश्ये यथा स्यादित्येवमर्थम् । क्षत्राणां संपत्तिः सक्षत्रम् । ऋद्धेराधिक्यं समृद्धिः, अनुरूप आत्मभाव: संपत्तिभाष्ये प्रयोगदर्शनाद् इह वैकल्पिकसमास इति तत्त्वम् । शक्तिमनतिक्रम्य यथाशक्तीति । 'परवरयोगे च' इति क्त्वाप्रत्ययः । परावरत्वं च बौद्धम् । अत्र यथेत्यव्ययं पदार्थानतिक्रमे वर्तत इत्यर्थः । हरेः सादृश्यं सहरीति । अत्र सहेत्यव्ययं सादृश्ये वर्तत इति भावः । वक्ष्यमाणेनेति । 'अव्ययीभावे चाकाले' इत्यनेनेत्यर्थः । ज्येष्ठस्यानुपूर्व्यणेत्यनुज्येष्ठमिति । कार्यं कृतमिति शेषः । तत्तद्विभक्त्या विग्रह इति पक्षाभिप्रायेणेदम् । पूर्वस्य क्रमेण इत्यनुपूर्वम्, ततः स्वार्थे ष्यञ् । यद्यपि एतत्सूत्रगृहीताव्ययेन समास नेत्यनुपदमेवोक्तम्, तथापि सूत्रगृहीतानुनाप्यनुज्येष्टमिति समासः, अनुपूर्वेति निर्देशात् । सूत्रे युगपच्छब्दात् स्वार्थे ष्यञ् यौगपद्यशब्दः । तद् ध्वनयनाह - चक्रेण युगपदिति । युगपत्पयार्यस्य सहशब्दस्य चक्रेण इत्यनेन समासे कृते सतीत्यर्थः । युगपच्छब्देन तु न समासः, सूत्रे गृहीतत्वादिति भावः । अव्ययी· भावे । सहस्य सः स्यादिति । 'सहस्य सः संज्ञायाम्' इत्यतः तदनुवृत्तेरिति भावः । न तु काल इति । कालवाचके परे सहस्य सो नेत्यर्थः । सचक्रमिति । चक्रेण युगपत्प्रयुक्तमित्यर्थः । सहपूर्वाह्णमिति । समीपादौ अव्ययीभावः । सूत्रे सादृश्येति स्वार्थे ष्यञ् । तद् ध्वनयन्नाह – सदृशः सख्या ससखीति । सहेत्यव्ययं सदृशार्थकमिति भावः । गुणभूतेऽपीति । वचनग्रहणसामर्थ्येनाव्ययार्थप्राधान्य एव समासप्रवृत्तेः गुणीभूतसादृश्य प्राप्त्या तद्ग्रहणमिति भावः । क्षत्राणां संपत्तिः सक्षत्रमिति । क्षत्रियाणामनुरूपं कर्मेत्यर्थः । सहेत्यव्ययमत्र संपत्तौ वर्तत इति भावः । संपत्तिसमृद्धिशब्दयोः पौनरुक्त्यं परिहरति — ऋद्धेरिति । धनधान्यादेरित्यर्थः । तन्न, नित्यसमासेषु ‘सविशेषणानां वृत्तिर्न' इत्यस्याप्रवृत्तेः । आनुपूर्व्येणेति । अनुपूर्वस्य भाव आनुपूर्व्यम्, ब्राह्मणादित्वात् ष्यञ् । चक्रेण युगपदिति । अत्र केचित्युगपञ्चकमिति समासेनैव भवितव्यम्, युगपच्छब्दस्याप्यव्ययत्वात्, किंतु 'चक्रेणैककाले' इत्यादि विग्रहीतुमुचितमित्याहुः । सहपूर्वाह्णमिति । साकल्येऽव्ययीभावः । गुणभूतेऽपीति । यदि सादृश्य इति नोच्यते, तर्हि यत्र सादृश्यं प्रधानमवगम्यते तत्रैव १यद्यपि 'यद्यपि' इति क्वचिदपि नास्ति तथापि उत्तरत्र ' तथापि' इति दर्शनादू अस्माभिर्निवेशितम् ।

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 716