Book Title: Laghu Siddhant Kaumudi Part 02 Author(s): Girdhar Sharma, Parmeshwaranand Sharma Publisher: Motilal Banrassidas Pvt LtdPage 14
________________ प्रकरणम् १७ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ११ ( २-४ -१८) अयं नपुंसकं स्यात् । 'हस्वो नपुंसके प्रातिपदिकस्य' ( सू ३१८ ) । गोपायतीति गाः पातीति वा गोपाः, तस्मिनित्यधिगोपम् । समीपे - कृष्णस्य समीपमुपकृष्णम् । समया ग्रामम्, निकषा लङ्काम् भाराद्वनादित्यत्र तु नाव्ययीभावः, 'अभितः परितः - ' ( वा १४४२ ) 'अन्यारात् -' ( सू २१५ ) इति भावश्च । श्रयं नपुंसकं स्यादिति । 'स नपुंसकम्' इत्यतः तदनुत्रृत्तेरिति भावः। नपुंसकत्वस्य फलमाह–ह्रस्वो नपुंसक इति । गोपायतीति । रक्षतीत्यर्थः । 'गुपू रक्षणे' विच् । 'आयादय आर्धधातुके वा' इत्यायप्रत्ययः । 'लोपो व्योः -' इति यलोपः । ‘वेरपृक्तस्य' इति वकारलोपः । गोपाशब्द आकारान्तः । गाः पातीति । पातेर्विचि उपपदसमासे गोपाशब्द इति भावः । अधिगोपमिति । विभक्त्यर्थेऽव्ययीभावसमासे सुब्लुकि नपुंसकत्वे ह्रस्वत्वे सति 'नाव्ययीभावात् -' इत्यमि पूर्वरूपमिति भावः । ' गोस्त्रियो:-' इति तु नात्र प्रसज्यते, स्त्रीप्रत्ययान्तत्वाभावात् । समीप इति । समीपार्थकाव्ययस्य समासे उदाहरणं वक्ष्यत इत्यर्थः । कृष्णस्य समीपमिति । लौकिकविग्रहवाक्यमेतत् । अत्र समस्यमानस्य उपशब्दस्य स्थाने समीप - मिति प्रयुक्तम् । कृष्णस्य उप इति तु न विग्रहः, नित्यसमासत्वेनास्वपदविग्रहौचित्यात् । ननु समया ग्रामम्, निकषा लङ्काम्, आराद्वनात् इत्यत्रापि समयाद्यव्ययानां समीपार्थकत्वाद् अव्ययीभावः स्यात्, ततश्च 'प्रामं समया, प्रामं निकषा वनादारात्' इति प्रयोगो न स्यात् । अव्ययीभावसमासे अव्ययस्य पूर्वनिपातनियमादित्यत आह-समयेति । स्यादेवेति । तन्न, परिगणनस्याकरे प्रत्याख्यातत्वात् 'कर्मणि द्वितीया' इति सूत्रे स्वयमपि तथैवोक्तत्वात् । ' क्रमादमुं नारद इत्यबोधि सः' इति प्रयोगविरोधाच्च । श्रत्र व्याचक्षते --' वचनग्रहणं विभक्त्यादिभिः प्रत्येकं संबध्यते' 'साकल्यान्तेषु' इत्येव वक्तव्ये वचनग्रहणात् । एवं च तत्सामर्थ्याद्विभक्त्यर्थमात्रवृत्तेरव्ययस्येह ग्रहणम् । तेन वृक्ष - स्योपरि, वृक्षस्य पुर इत्यत्र समासो न भवति । उपर्यादयो हि दिग्देशकालेष्वपि वर्तन्ते, न तु विभक्त्यर्थमात्रे । अत एव 'क्रमादमुं नारद इत्यबोधि सः' इत्यादौ नातिप्रसङ्गः, इति शब्दस्य सर्वनामवत्प्रकृतपरामर्शकत्वेन कर्मत्वमात्रानभिधायकत्वात् । एवं च विभक्तिशब्दः सप्तम्यां पर्यवस्यति । अत एव परिशिष्टे - 'अधिकरणे' इत्येव सूत्रितम् । पाणिनिस्तु मात्रालाघवमभिप्रेस्य विभक्तिशब्दं प्रायुङ्क्त' इति । अन्ये तु - ' लाघवात् 'डिसमीपसमृद्धि-' इति वक्तव्ये विभक्तिग्रहणाद्विभक्तिशब्दो न सप्तम्यां पर्यवस्यति । ततश्च कर्मत्वमात्रद्योतकतायाम् ' इति नारदम्' इति समासो भवत्येव' इत्याहुः । नपुंसकं स्यादिति । एतच्च 'स नपुंसकम्' इत्यतो लभ्यते । समीप इति । श्रव्ययीभाव इत्यन्वर्थसंज्ञाश्रयणात्सप्तमी रूपाव्ययार्थ प्राधान्य एवायं समासः । समीपवर्तिप्राधान्ये 1Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 716