Book Title: Laghu Siddhant Kaumudi Part 02
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

Previous | Next

Page 13
________________ १०] सिद्धान्तकौमुदी। अव्ययीभावम्यर्थस्यैवात्र द्योतकोऽधिः । हरि हि अधि इस्यलौकिकं विरहवाक्यम् । अत्र निपातेनाभिहितेऽप्यधिकरणे वचनसामर्थ्यात्सप्तमी । ६५६ अ ययीभावश्च । गम्यते तावदेवाधिहरीति समासेनाप्युच्यत इत्यर्थः । अधिशब्दस्य इरावित्यनेन अव्ययीभावसमासे सुब्लुकि समासविधावव्ययमिति प्रथमानिर्दिष्टत्वाद् अधेः पूर्वनिपाते समासादुत्पन्नस्य सुपः 'अव्ययादाप्सुपः' इति लुगिति भावः। ननु ल'किकविग्रहे समस्यमानः अधिशब्दः कुतो नोपात्त इत्यत आह-सप्तम्यर्थस्यैवात्र द्योतकोऽधिरिति । तथा चाधिद्योत्यार्थस्य अधिकरणत्वस्य सप्तम्यैव उक्तत्व द् अधिशब्दो न पृथगुपात्तः, नित्यसमासताया वक्ष्यमाणत्वेन स्वपदविग्रहानौचित्यादिति भावः । ननु हरौ इति परिनिष्ठतसंधिकार्यस्य समासे सति औ इत्यस्य सुपो लु १ समासे रेफादिकारः कुतः श्रूयेतेत्यत आह-हरि ङि इति । संधिकार्यात् प्राग नौकिकविग्रहवाक्य एव समासप्रवृत्तेः 'प्रत्ययोत्तरपदयोश्च' इति भाष्यसंमतत्वादिति भावः । यथा चैतत् तथा भूतपूर्व इत्यत्रानुपदमेवोक्तम् । नन्वधिना निपातेनाधिकरणत्वस्योक्तत्वात् कथं हराविति सप्तमीत्यत आह-अत्र निपातेनेति । वचनेति । सुपेत्यनुवर्त्य सुबन्तेनात्र समासविधिसार्थ्यात् सप्तमी स्यादेवेति भावः । वस्तुतस्तु उ नभिहितसूत्रभाष्ये तिङ्कृत्तद्धितसमासरित्येव परिगणनं दृष्टम् । अतो निपातेनाधिना अभिहितेऽप्यधिकरणत्व सप्तमी निर्बाधा । 'विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसांप्रतम्' इत्यत्र तु एष्टव्य इत्यध्याहार्यम् । कृताऽभिधानाद् विषवृक्षाद् द्वितीया न भवति न च कृत्तद्धितसमासैरिति परिगणनं भाष्ये प्रत्याख्यातमिति वाच्यम् , 'कटं करोति भीष्ममुदारं दर्शनीयम्' इत्यत्र परिगणनफलस्यान्यथासिद्धेरेव तत्रोक्तत्वादित्यास्तां त वत् । अव्ययी. पञ्चम्यास्तु अपदिशादित्युदाहार्यम् । विभक्तौ तावदिति । तावच् छन्दः क्रमार्थः । लौकिकं विग्रहवाक्यं प्रदर्शयति--हराविति । प्राचा तु हरौ अधिकृत्येति विगृहीतम् । तदसत् , अधिहरीत्यत्र अधिकृत्येत्यर्थस्याप्रतीतेः । हरि ङाति । अलौकिके डिशब्दस्यैव प्रवेश उचितः 'अन्तरझानपि-' इति न्यायात् । अन्य था ढेरौत्त्वे कृते अधिहरीति समासे हरिशब्देकारो दुर्लभः स्यादिति भावः । इह द्रावधीति स्थिते इति प्राचोक्तमुपेक्षितम् , नित्यसमासेषु अस्वपदविग्रहस्यैवोचितत्वात् अभिहिते. पीति । गोतितेऽपीत्यर्थः । वचनसामर्थ्यादिति । सुपेत्यनुवर्त्य सुबन्तेन समासविधानसामर्थ्यात्सप्तमी स्यादेवेति भावः । नन्वलिहितेऽधिकरणे 'प्रातिपदिकार्थमात्र-' इति प्रथमैव स्यान्न तु सप्तमीति चेत् , अत्राहुः--अधीत्यस्य सुबन्तेन समासस्यावश्यकत्वेऽधिशब्दद्योत्याधिकरणार्थवाचकविभक्तरेवेह स्वीकर्तुमुचितत्वादितिः । यत्तु प्रसादकृता व्याख्यातम्-तिकृत्तद्धितसमासैरिति परिगणनादधिनाभिति तेऽपि सप्तमी

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 716