Book Title: Laghu Siddhant Kaumudi Part 02
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

Previous | Next

Page 12
________________ प्रकरणम् १७ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [. अमादेशश्च स्यात् । दिशयोर्मध्येऽपदिशम्। 'क्रीवाव्ययं स्वपदिशं दिशोमध्ये विदिक स्त्रियाम् ।' इत्यमरः । ६५८ तृतीया सप्तम्योर्बहुलम् । (२-४-८४) अदन्तादण्ययीभावात्तृतीयासप्तम्योबहुखमम्भावः स्यात् । अपदिशम्, अपदिशेन अपदिशम् , अपदिशे। बहुलग्रहणात् सुमद्रम् उन्मत्तगङ्गम् इत्यादौ सप्तम्या नित्यमम्भावः। 'विभक्ति-' इत्यादेरयमर्थः-विभक्त्यर्थादिषु वर्तमानमव्ययं सुबन्तेन सह समस्यते, सोऽव्ययीभावः । विभक्तौ तावत्-हरौ इत्यधिहरि । सप्त. तदाह-तस्य पञ्चमी विना अमादेश इति । अत्रापञ्चम्या इति प्रतिषेधोऽयम् अनन्तरत्वादम एव भवति, न तु लुनिषेधस्यापि । एवं चादन्तादव्ययीभावात् परस्य सुपो न लुक् , किंत्वमादेशः । पञ्चम्यास्तु लुग् अमादेशश्च न भवतीति स्थितिः । सूत्रे एतत्सूचनार्थमेव तुशब्दः । 'अव्ययीभावादतोऽम्त्वपञ्चम्याः' इत्येवोक्तौ तु अदन्तादव्ययीभावात् परस्य पञ्चमीभिन्नस्य सुपो लुकोऽपवादः अमादेशः स्यादित्येव लभ्येत । एवं सति पञ्चम्या अमोऽभावे 'अव्ययादाप्सुपः' इति लुक् स्यात् । अतो लुङ् निषिध्यत इत्यास्तां तावत् । अपदिशमिति । पञ्चमीभिन्न विभक्तीनामुदाहरणम्। पञ्चम्यास्तु अपदिशादित्युदाहार्यम् । यद्यपि नपुंसकह्रस्वत्वेनाप्येतत् सिध्यति, 'अव्ययीभावश्च' इति नपुंसकत्वस्य वक्ष्यमाणत्वात् । तथापि 'गोस्त्रियोः-' इति सूत्रं चित्रगुः, अतिखट्व इत्याद्यर्थमावश्यकमिति इहापि न्याय्यत्वादुपन्यस्तम् । तदेवमव्ययमिति भाष्यादृष्टेनापि योगविभागेन अपदिशमिति रूपसाधनं वृद्धसंमतमित्याह-क्लीबाव्ययमिति। तृतीया। 'नाव्ययीभावात्-' इत्यस्माद् अत इत्यनुवर्तते, तदाह-अदन्तादिति । अमादेशाभावे तु 'नाव्ययीभावात्-' इत्यलुक् । ननु वेति सिद्धे किं बहुलग्रहणे. नेत्यत आह-बहुलग्रहणादिति तदेवमव्ययमिति योगं विभज्य व्याख्याय तदुत्तरखण्डं व्याख्यातुमुपक्रमते-विभक्तीत्यादेरयमर्थ इति । विभक्तीत्यनेन विभक्तयों विवक्षितः । उच्यन्त इति वचनाः । कर्मणि ल्युट् । विभक्ति, समीप, समृद्धि, व्यृद्धि, अर्थाभाव, अत्यय, असंप्रति, शब्दप्रादुर्भाव, पश्चात्, यथा, आनुपूर्व्य, योगपद्य, सादृश्य, संपत्ति, साकल्य, अन्त एतेषां षोडशानां द्वन्द्वः । ते च ते वचनाश्च इति विग्रहः । विभक्त्यर्थादिषु वाच्येष्वित्यर्थः । अव्ययीभावः समास इति चाधिकृतम् । तदाह-विभक्त्यर्थादिग्विति । विभक्तौ तावदिति । विभक्त्यर्थे प्रथममुदाहियत इत्यर्थः । हरी इत्यधिहरीति । हरौ इति लौकिकविग्रहः । तेन यावदवलुङ् न, पञ्चम्यास्तु लुगादेशावुभावपि न भवत इति स्थितम् । अतः किम् , अधिहरि । दिशयोरिति । दिशोरिति हलन्तेन विग्रहेऽपि एतदेव रूपम् । दिशशब्दस्य शरदादिषु पाठादृच् । अपदिशमिति । पञ्चमीव्यतिरिक्तविभक्तीनामुदाहरणमिदम् ।

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 716