Book Title: Laghu Siddhant Kaumudi Part 02
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

Previous | Next

Page 5
________________ २] सिद्धान्तकौमुदी। [अव्ययीभाव समर्थाश्रित इति । सूत्रे समर्थशब्दः समाश्रिते लागणिक इति भावः । सामर्थ्य द्विविधम्-व्यपेक्षालक्षणम् एकार्थीभावलक्षणं च । नत्र स्वार्थपर्यवसायिनां पदानामाकाङ्क्षादिवशाद्यः परस्परान्वयः तद् व्यपेक्षाभिधं नामर्थ्यम् , विशिष्टा अपेक्षा व्यपेक्षेति व्युत्पत्तेः, संबद्धार्थः समर्थ इति व्युत्पत्तेश्च । इदं च राज्ञः पुरुष इत्यादिवाक्य एव भवति । तत्र च एकैकस्य शब्दस्य यो यः संनिहितो योग्यश्च तेन तेनान्वयो भवति । यथा राज्ञः पुरुषोऽश्वश्चेति, राज्ञो देवदत्तस्य च पुरुष इति, ऋद्धस्य राज्ञः पुरुष इति च । एकार्थीभावलक्षणसामर्थ्य तु प्रक्रियादशायां प्रत्येकमर्थवत्त्वेन पृथग् गृहीतानां पदानां समुदायशक्त्या विशिष्टैकार्थप्रतिपाद तारूपम् । संगतार्थः समर्थः, संसृष्टार्थः समर्थ इति व्युत्पत्तेः । संगतिः संसर्गश्च एकीभाव एव । यथासंगतं घृतं तैलेनेति एकीभूतमिति गम्यते, यथा वा संसृष्टोऽ मेरिति एकीभूत इति गम्यत इति भाष्याच्च । इदं च सामर्थ्य राजपुरुष इत्यादिवृत्तावेन । अत एव ऋद्धस्य राजपुरुष इत्येवं राशि पुरुषविशेषणे ऋद्धत्वविशेषणं नान्वेति, विशिष्टस्य एकपदार्थतया राज्ञः पदार्थैकदेशत्वात् । देवदत्तस्य गुरुकुलमित्यत्र तु उपपजनस्य नित्यसापेक्षत्वात् समासः । यद्वा गुरुवद्देवदत्तोऽपि विशेष्ये प्रधाने कुल । वान्वेति, तत्र गुरुणा कुलस्य उत्पाद्यत्वसंबन्धेनान्वयः । देवदत्तेन तु कुलस्य तदायगुरुत्पाद्यतयाऽन्वयो गुरुगर्भः । उक्तं च हरिणा “संबन्धिशब्दः सापेक्षो नित्यं सर्वः समस्यते । वाक्यवत्सा व्यपेक्षा हि वृत्तावपि न हीयते ॥” इति "समुदायेन संबन्धो येषां गुरुकुलादिना। संस्पृश्यावयवांस्ते तु युज्यन्ते तद्वता सह ॥” इति च । एतेन 'अयश्शूल-' इति सूत्रे भाष्ये 'शिवस्य भगवतो भक्तः' इत्यर्थे शिवभागवत इत्यादि व्याख्यातम् । एकार्थीभावश्चायमलौकिकविग्रहवाक्ये कल्प्यते, यथा लादेशभूतशतृशानचोः अप्रथमासानाधिकरण्यं कल्प्यते, तत् । अत एव 'लस्य अप्रथमासमानाधिकरणनार्थेनायोगादादेशानुपपत्तिः, तस्य कारि प्रयोगाभावादित्याक्षिप्य आदेशे सामानाधिकरण्यं द्रष्ट्वा अनुमानाद् गन्तव्यं प्रकृतेरपि तद्भवति' इति 'लटश्शतृशानचौ-' इति सूत्रभाष्ये समाहितम् । 'सिद्धानां शब्दानामन्वाख्यानात् पचन्तं दक इत्यादौ उदककर्तृकप्राप्तिकर्मेत्याद्यर्थाभ्युपगमात् । एकार्थ भावे तु लाघवमिति दिक । पदग्रहणं किम् , वर्णविधौ समर्थपरिभाषा मा भूत् । तितु दध्यानय तक्रम् , इह स्यादेव यण । विधिग्रहणं तु पदस्य विधिः पदयोविधिः पदानां विधिरित्यनेकविभक्त्यन्तसमासलाभार्थम् । पदस्थेत्युक्ती तु 'उपपदमति इत्यादावेवास्योपस्थितिः

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 716