Book Title: Laghu Siddhant Kaumudi Part 02
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

Previous | Next

Page 8
________________ प्रकरणम् १७ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [५ पदिकत्वम् । ६५० सुपो धातुप्रातिपदिकयोः। (२-४-७१) एतयोरवयवस्य सुपो लुक्स्यात् । भूतपूर्वे चर' (सू १६६६) इति निर्देशाद् भूतशब्दस पूर्वनिपातः । पूर्व भूतो भूतपूर्वः । 'इवेन समासो विभक्त्यखोपत्र' (वा १२५६, त्वात् प्रातिपदिकसंक्षेति । 'कृत्तद्धितसमासाश्च' इत्यनेनेति शेषः । सुपो धातु। धातुप्रातिपदिकयोरित्यवयवषष्ठीत्याह-एतयोरवयवस्येति । लुक् स्यादिति । 'ण्यक्षत्रियार्षञितो यूनि लुक्' इत्यतस्तदनुवृत्तेरिति भावः । न च सुप इत्यनेन सप्तमी. बहुवचनस्यैव ग्रहणं किं न स्यादिति वाच्यम्, 'पञ्चम्याः स्तोकादिभ्यः' इत्यलुग्विधानात् सुप्प्रत्याहारस्यैवात्र ग्रहणमिति ज्ञापनात् । न चैवमपि पूर्व भूत इति लौकिकविग्रहवाक्ये परिनिष्ठितसंधिकार्ययोः सुबन्तयोः समासे सति पूर्वमित्यत्र अमि पूर्वरूपस्य एकादेशस्य परादित्वमाश्रित्य अमो लुकि समासदशायां वकारादकारो न श्रूयेत। पूर्वान्तत्वे तु परिशिष्टस्य मकारस्य सुप्त्वाभावात् कथं लुगिति वाच्यम् , 'सुपो धातु-' इति लुग्विषये 'अन्तरजानपि विधीन् बहिरङ्गो लुग् बाधते' इत्याश्रित्य संधिकार्यप्रवृत्तेः प्रागेवालौकिकविग्रहवाक्ये समासप्रवृत्तिरिति 'प्रत्ययोत्तरपदयोश्च' इति सूत्रभाष्ये स्थितम्। 'कृत्तद्धितसमासाश्च' इत्यत्र प्रौढमनोरमायामपि परिष्कृतमिदम्। 'भौषा-' इति सूत्रव्याख्यावसरे प्रपञ्चितं चास्माभिः । एवं च पूर्व अम् भूत स् इत्यलौकिकविग्रहदशायामेव अमो लुक्प्रवृत्ते!क्तदोषः । तथा च सुपो लुकि भूतपूर्वेति स्थितम् । ननु 'सुबन्तं सुबन्तेन समस्यते' इति समासशास्त्रे सुबन्तं प्रथमानिर्दिष्टम् । सुबन्तत्वं च द्वयोरप्यविशिष्टम् । ततश्च 'प्रथमानिर्दिष्टं समास उपसर्जनम्' इति वक्ष्यमाणोपसर्जनत्वस्य द्वयोरप्यविशिष्टत्वाद् ‘उपसर्जनं पूर्वम्' इत्यन्यतरस्य पूर्वनिपाते विनिगमनाविरह इत्यत आह-भूतपूर्वे चरडिति । पूर्व भूत इति । लौकिकविग्रहोऽयम् । पूर्वमिति क्रियाविशेषणम् । भूतपूर्व इति । समासत्वेन प्रातिपदिकत्वात् समुदायात् पुनर्यथा. यथं सुबुत्पत्तिरिति भावः । इवेनेति । इवेत्यव्ययेन सुबन्तस्य समासः । 'सुपो धातु-' त्यादि दूषणं कर्मणो यमभिप्रैति-' इति सूत्रेऽस्माभिरुद्भावितम् । अनुव्यचलदिति। सुबित्येकत्वस्य विवक्षितत्वात्पर्यायेण समासो बोध्यः । समासान्तोदात्तत्वे शेषनिघात इति 'कुगति-' इति सूत्रे कैयटः। सुपो धातु । सुप इति प्रत्याहारस्य ग्रहणं 'पञ्चम्याः स्तोकादिभ्यः' इत्याद्यलुक्समासविधानाज्ज्ञापकात् । निर्देशादिति । अन्यथा हि प्रथमानिर्दिष्टत्वाविशेषेऽपि उपसर्जनसंज्ञाया अन्वर्थत्वेन पूर्वशब्दस्यैव पूर्वनिपातः स्यादिति भावः ॥ इवेनेति । अयमपि समासः पूर्ववत् क्वाचित्क एव । तेन जीमूतस्येवेत्यादौ तैत्तिरीयाणां पृथक्पदत्वेन पाठः । 'उद्बाहुरिव वामनः' इत्यादौ व्यस्तप्रयोगश्च संगच्छत इति मनोरमायां स्थितम् । विभक्त्यलोपश्चेति । समासावयवस्य सुपोऽलुम्विधाने

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 716