Book Title: Kumtahivish Janguli Mantra
Author(s): 
Publisher: Pravinchandra Amrutlal Shah

View full book text
Previous | Next

Page 20
________________ SURGE कुमताहि- उत्त्रासने ॥ उक्तार्थविपर्ययमाह जीवेणमित्यादि णो पयइति शैलेशीकरणे योगनिरोधानो एजत इति, एजनादिरहितस्तु नारंभारिपु वर्तते, & विषयुक्ति।।९।। तथा च न प्राणादीनां दुःखापनादिषु, तथापि च योगनिरोधामिधानशुक्लध्यानेन सकलकर्मध्वंसरूपान्तक्रिया भवति, तत्र दृष्टान्तद्वयमाह- जाजुला से जहेत्यादि तिणहत्थयंति तृणपूलकं जायतेयंसित्ति वह्नौ मसमसाविज्जइत्ति शीघ्र दह्यते, इह च दृष्टान्तद्वयस्याप्युपनयार्थः सामर्थ्य मत्रः 'गम्यो, यथा-एवमेजनादिरहितस्य शुक्लध्यानचतुर्थभेदानलेन कर्मदाहदहनं स्यादिति । अथ निष्क्रियस्यैवान्तक्रिया भवतीति नौदृष्टान्तेनाह-से जहाणामप इत्यादि, इह शब्दार्थः प्राग्वन्नवर उद्दाइत्ति उद्याति, जलस्योपरि वतर्ते, अत्ततासंवुडस्सति आत्मन्यात्मना संवृत्तस्य, प्रतिसलीनस्येत्यर्थः, एतदेव इरियासमितस्सेत्यादिना प्रपंचयति-आउत्तंति आयुक्तमुपयोगपूर्वकमित्यर्थः, जाव चक्षूपम्हनिवायमवित्ति किं बहुना आयुक्तगमनादिना स्थूलक्रियाजालेनोक्तेन ? यावच्चक्षुःपक्ष्मनिपातोऽपि, प्राकृतबाल्लिंगव्यत्ययः, उन्मेषनिमेषमात्रक्रियाप्यस्ति, आस्तां गमनादिका, तावदिति शेषः, वेमायत्ति विविधमात्रा, अन्तर्मुहूर्तादेर्देशोनपूर्वकोटीपर्य न्तस्य क्रियाकालस्य विचित्रत्वात् , वृद्धाः पुनरेवमाहुः यावच्चक्षुषो मेपोन्मेषमात्राऽपि क्रियाक्रियते तावताऽपि कालेन विमात्रया स्तोकमात्रयाऽपीति, ॐ क्वचिद्विमात्रेत्यस्य स्थाने सपेहात्ति दृश्यते तत्र च स्वप्रेक्षया स्वेच्छया चक्षुःपक्ष्मनिपातो, न तु परकृतः, सुहुमत्ति सूक्ष्मबन्धादिकाला, ईरियावहियत्ति ईर्यापथो-गमनमार्गस्तंत्र भवा ऐपिथिकी, केवलयोगप्रत्ययेति भावः, किरियेत्ति कर्म सातवेदनीयमित्यर्थः, कज्जइत्ति क्रियते भवतीत्यर्थः, उपशान्तमोहक्षीणमोहसयोगिकेवलिलक्षणगुणस्थानकत्रयवर्ती वीतरागोऽपि हि सक्रियत्वात् सातवेद्यं कर्म बध्नातीति भावः । सेति ईर्यापथिकी क्रिया पढमसमयबद्धपुदृत्ति बद्धा कर्मतापादनात् , स्पृष्टा जीवप्रदेशैः स्पर्शनात्, ततः कर्मधारये तत्पुरुषे च सति प्रथमसमयबद्धस्पृष्टा, तथा द्वितीयसमये वेदिता-अनुभूतस्वरूपा, एवं तृतीयसमये निर्जीर्णा अनुभूतस्वरूपत्वेन जीवप्रदेशेभ्यः परिशारितेति, एतदेव वाक्या O GRAPARICK SHRSHANGANGACASSEN

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33